संस्कृत-शब्दकोशः

वाञ्छिनी वाटशृङ्खला

वाट

वाचस्पत्यम्

वाट ||‍ पु० वट—घञ् । १ पथि २ वृतिस्थाने च मेदि० गौरा० ङीष् ४ वास्तुभूमौ ५ कुट्यां स्त्री मेदि० । ६ वाट्यालके शब्दर० ।


शब्दकल्पद्रुमः

वाटं || क्ली वरण्डः । गात्रभेदः । इत्यमरटीका ॥ यथा, —
“वाटः पथि वृतौ वाटं वरण्डे गात्रभेदयोः ।” इति हैमः ॥


शब्दकल्पद्रुमः

वाटः || पुं, (वट्यते वेष्ट्यते इति । वट + घञ् ।)
मार्गः । वृतिस्थानम् । इति मेदिनी । टे, २८ ॥ अपि च । “मुखं निःसरणे वाटे प्राचीनावेष्टकौ वृतिः ॥” इति हेमचन्द्रः ॥ (वास्तु । मण्डपः । यथा, भागवते । ८ । १८ । २३ । “छत्रं सदण्डं सजलं कमण्डलुं विवेश विभ्रद्धयमेधवाटम् ॥” वटस्येदमिति । वट + अण् । वटसम्बन्धिनि, त्रि । यथा, मनुः । २ । ४५ । “ब्राह्मणो वैल्वपालाशौ क्षत्रियो वाटखा- दिरौ । पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्म्मतः ॥”)



Correction: