संस्कृत-शब्दकोशः

वाटशृङ्खला वाटी

वाटिका

वाचस्पत्यम्

वाटिका ||‍ स्त्री वट—ण्वुल् । १ वास्तुभूमौ (वेडियाला) २ क्षुपे ३ हिङ्गुपत्र्याञ्च शब्दच० ।


शब्दकल्पद्रुमः

वाटिका || स्त्री (वट्यते वेष्ट्यते प्राचीरादिभि- रिति । वट वेष्टने + संज्ञायामिति ण्वुल् । टाप् । अत इत्वम् ।)
वास्तु । (यथा, कथासरित्- सागरे । ७२ । २०६ । “सा स्नानाय गते तस्मिन् शाकार्थं शाकवाटि- काम् । प्रविष्टा धावकखरं खादन्तं शाकमैक्षत ॥”)
वाट्यालकः । इति शब्दरत्नावली ॥ हिङ्गुपत्री । इति शब्दचन्द्रिका ॥



Correction: