संस्कृत-शब्दकोशः

वाटिका वाटीदीर्घ

वाटी

शब्दकल्पद्रुमः

वाटी || स्त्री (वट्यते वेष्ट्यते इति । वट वेष्टने + घञ् । गौरादित्वात् ङीष् ।)
वाट्यालकः । इति शब्दरत्नावली ॥ कुटी । वास्तु । इति मेदिनी । टे, २८ ॥ शेषस्य पर्य्यायः । “वास्त्वस्त्री वेश्म भूर्व्वाटी वाटिका गृहपोतकः ॥” इति शब्दरत्नावली ॥ तस्या लक्षणादिर्यथा, — विश्वकारुरुवाच । “के ते वृक्षाः प्रशस्ताश्च निषिद्धाश्चापि केचन । भद्रा भद्रप्रदाश्चापि तान् वदस्व जगद्गुरो ॥ केषामन्तनियुक्तञ्च शिविरञ्च शुभाशुभम् । दिशि कुत्र जलं भद्रमशुभञ्च वद प्रभो ॥ द्वाराणाञ्च गृहाणाञ्च प्राकाराणां प्रमाणकम् । भद्रप्रदश्च को वृक्षो दिशि कुत्र प्रवर्त्तते ॥ किं प्रमाणं गृहाणाञ्च प्राङ्गणानां जगद्गुरो । मङ्गलं कुसुमोद्यानं दिशि कुत्र तरोस्तथा ॥ प्राकारं किंप्रमाणञ्च परिखाणां सुरेश्वर । द्वाराणाञ्च गृहाणाञ्च प्राकाराणां प्रमाणकम् ॥ कस्य कस्य तरोः काष्ठं प्रशस्तं शिविरे प्रभो । अमङ्गलं वा केषां वा सर्व्वं मां वक्तुमर्हसि ॥ * ॥
श्रीभगवानुवाच । आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः । शिविरस्य यदीशाने पूर्ब्बे पुत्त्रप्रदस्तरुः ॥ सर्व्वत्र मङ्गलार्हश्च तरुराजो मनोहरः । रसालवृक्षः पूर्ब्बस्मिन् नृणां सम्पत्प्रदस्तथा ॥ शुभप्रदश्च सर्व्वत्र सुरकारो ! निशामय । विल्वश्च पनसश्चैव जम्बीरो वदरी तथा ॥ प्रजाप्रदश्च पूर्ब्बस्मिन् दक्षिणे धनदस्तथा । सम्पत्प्रदश्च सर्व्वत्र यतो हि वर्द्धते गृही ॥ जम्बुवृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा । बन्धुप्रदश्च पूर्ब्बस्मिन् दक्षिणे मित्रदस्तथा ॥ सर्व्वत्र शुभदश्चैव धनपुत्त्रशुभप्रदः । हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा ॥ ईशाने सुखदश्चैव सर्व्वत्रैवं निशामय । सर्व्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा ॥ अलावुश्चापि कुष्माण्डं मायाम्बुश्च सुकामुकः । खर्ज्जूरी कर्क्कटी चापि शिविरे मङ्गलप्रदाः ॥ वास्तूकः कारवेल्लश्च वार्त्ताकुश्च शुभप्रदाः । लताफलञ्च शुभदं सर्व्वं सर्व्वत्र निश्चितम् ॥ प्रशस्तं कथितं कारो निषिद्धञ्च निशामय ॥ वन्यवृक्षो निषिद्धश्च शिविरे नगरेऽपि च । वटो निषिद्धः शिविरे नित्यं चौरभयं ततः । नगरेषु प्रसिद्धश्च दर्शनात् पुण्यदस्तथा ॥ हे कारो तिन्तिडीवृक्षो यत्नात्तं परिवर्ज्जय ॥ शरेण धनहानिः स्यात् प्रजाहानिर्भवेत् ध्रुवम् । शिविरेऽतिनिषिद्धश्च नगरे किञ्चिदेव च ॥ न निषिद्धः प्रसिद्धश्च नगरेषु तथा पुरे । वाट्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्ज्जयेत् ॥ स्वर्ज्जूरश्च डहुश्चैव निषिद्धः शिविरे तथा । न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च ॥ वृक्षश्च चणकादीनां धान्यञ्च मङ्गलप्रदम् ॥ ग्रामेषु नगरे चापि शिविरे च तथैव च ॥ इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा । अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः ॥ कच्वी हरिद्रा शुभदा शुभदश्चार्द्रकस्तथा । हरौतकी च शुभदा ग्रामेषु नगरेषु च । न वाट्यां भद्रदा नित्यं तथा चामलकी ध्रुवम् ॥ गजानामस्थि शुभदमश्वानाञ्च तथैव च । कल्याणमुचैःश्रवसां वास्तौ स्थापनकारिणाम् ॥ न शुभप्रदमन्येषामुच्छन्नकारणं परम् । वानराणां नराणाञ्च गर्द्दभानां गवामपि ॥ कुक्कुराणां शृगालानां मार्ज्जाराणामभद्रकम् । भेडकानां शूकराणां सर्व्वेषाञ्चशुभप्रदम् ॥ इशाने चापि पूर्ब्बस्मिन् पश्चिमे च तथोत्तरे । शिविरस्य जलं भद्रमन्यत्राशुभमेव च ॥ दीर्घे प्रस्थे ममानञ्च न कुर्य्यान्मन्दिरं बुधः । चतुरस्रे गृहे कारो गृहिणां धननाशनम् ॥ दीर्घप्रस्थः परिमितो नेत्राङ्केनापि संहृतम् । शून्येन रहितं भद्रं शून्यं शून्यप्रदं नृणाम् ॥ प्रस्थे हस्तद्बयात् पूर्ब्बं दीर्घे हस्तत्रयं तथा । गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च ॥ न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिके शुभम् । चतुरस्रं चन्द्रवेधं शिविरं मङ्गलप्रदम् । अभद्रदं सूर्य्यवेधं शिविरं मङ्गलाप्रदम् । अभद्रदं सूर्य्यवेधं प्राज्ञाङ्गनं तथैव च ॥ * ॥
शिविराभ्यन्तरे भद्रा स्थापिता तुलसी नृणाम् । धनपुत्त्रप्रदात्री च पुण्यदा हरिभक्तिदा । प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् ॥ मालती यूथिका कुन्दमाधवी केतकी तथा । नागेश्वरं मल्लिका च काञ्चनं वकुलं शुभम् ॥ अपराजिता च शुभदा तेषामुद्यानमीप्सितम् । पूर्ब्बे च दक्षिणे चैव शुभदं नात्र संशयः ॥ ऊर्द्ध्वं षोडशहस्तेभ्यो नैवं कुर्य्याद्गृहं गृही । ऊर्द्ध्वं विंशतिहस्तेभ्यः प्राकारं न शुभप्रदम् ॥ * ॥
सूत्रधारं तैलकारं स्वर्णकारञ्च हीरकम् । वाटीमूले ग्राममध्ये न कुर्य्यात् स्थापनं बुधः ॥ ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम् । भट्टं वैद्यं पुष्पकारं स्थापयेत् शिविरान्तिके ॥ * ॥
प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् । परितः शिविराणाञ्च गम्भीरं दशहस्तकम् ॥ सङ्केतपूर्व्वकञ्चैव परिखाद्वारमीप्सितम् । शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च ॥ * ॥
शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैव च । निम्बानां सिन्धुवाराणां उडुम्बराणामभद्रकम् ॥ धुस्तूराणां वटानाञ्चाप्येरण्डानामवाञ्छितम् । एतेषामतिरिक्तानां शिविरे काष्ठमीप्सितम् ॥ वृक्षञ्च वज्रहतकं दूरतो वर्ज्जयेद्बुधः । पुत्त्रदारधनं हन्यात् इत्याह कमलोद्भवः ॥ कथितं लोकशिक्षाथं कुरु काष्ठं विना पुरीम् । शुभक्षणं चाप्यधुना गच्छ वत्स यथासुखम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अः ॥



Correction: