शब्दकल्पद्रुमः
वाडवाग्र्यः is an alternate of बाडवाग्र्यः. बा(वा)डवाग्र्यः || पुं, (बाडवेषु ब्राह्मणेषु अग्र्यः श्रेष्ठः ।)
ब्राह्मणश्रेष्ठः । यथा, —
“इत्याकर्ण्य वचस्तस्य बाडवाग्र्यस्य धीमतः । पप्रच्छ हृष्टमानस्कस्तीर्थयात्राविधिं मुनिम् ॥” इति पाद्मे पातालखण्डे १९ अध्यायः ॥