संस्कृत-शब्दकोशः

वाण वाणदण्ड

वाणगङ्गा

शब्दकल्पद्रुमः

वाणगङ्गा is an alternate of बाणगङ्गा. बा(वा)णगङ्गा || स्त्री (बाणेन प्रकटिता गङ्गा नदी- विशेषः ।)
रावणबाणनिर्भिन्नसोमेश्वरगिरि- भवनदीविशेषः । यथा, —
“सोमेशाद्दक्षिणे भागे बाणेनाद्रिं विभिद्य वै । रावणेन प्रकटिता जलघारातिपुण्यदा । बाणगङ्गेति विख्याता या स्नानादघहारिणी ॥ स्नात्वा तु बाणगङ्गायां दृष्ट्वा बाणेश्वरं विभुम् । गङ्गास्नानफलं प्राप्य मोदते देववद्दिवि ॥” इति वाराहे सोमेश्वरादिलिङ्गमहिमावमुक्ति- क्षेत्रमहिमा त्रिवेण्यादिमहिमा नामाध्यायः ॥



Correction: