शब्दकल्पद्रुमः
वाणवारः is an alternate of बाणवारः. बा(वा)णवारः || पुं, (बाणं परमुक्तशरं वारय- तीति । वृ + णिच् + अण् ।)
भटादेश्चोलाकृति- सन्नाहः । तत्पर्य्यायः । वारवाणः २ वारणः ३ । इति शब्दरत्नावली ॥ चोलकः ४ । इति हारा- वली । १९७ ॥ (क्लीवेऽपि दृश्यते । यथा, सुश्रुते । ४ । २४ । “बाणवारं मृजावर्णतेजोबलविवर्द्धनम् ॥”)