संस्कृत-शब्दकोशः

वाणिजिक वाणिज्या

वाणिज्य

शब्दकल्पद्रुमः

वाणिज्यं is an alternate of बाणिज्यं. बा(वा)णिज्यं || क्ली (बणिजो भावः कर्म्म वा । बणिज् + ष्यञ् ।)
वैश्यवृत्तिभेदः । इत्यमरः ॥ बणिजः कर्म्म भावो वा । बाणिज्येत्यपि दृश्यते । इति भरतः ॥ तत्पर्य्यायः । सत्यानृतम् २ बाणिज्या ३ बणिक्पथः ४ । इति जटाधरः ॥ (यथा, मार्कण्डेये । ५१ । ५४ । “कृष्यां बाणिज्यलाभे च शान्तिं कुर्व्वन्तु मे सदा ॥”)
क्रयविक्रयरूपस्य तस्य विवरणादि यथा, —
“मानेन तुलया वापि योऽशमष्टमकं हरेत् । दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पि- तम् ॥” यः पुनर्बणिक् ब्रीहिकार्पासादेः पण्यस्याष्टम- मंशं कूटमानेन कूटतुलया वान्यथापहरत्यसौ पणानां द्विशतं दण्डनीयः । अपहृतस्य पुन- र्द्रव्यस्य वृद्धौ हानौ च दण्डस्यापि वृद्धिहानी कल्प्ये ॥ “भेषजस्नेहलवणगन्धधान्यगुडादिषु । पण्येषु प्रक्षिपन् हीनं पणान् दाप्यस्तु षोडश ॥” मेषजमौषधद्रव्यं स्नेहो घृतादिः गन्धद्रव्यमुशी- रादि आदिशब्दाद्धिङ्गुमरिचादि । एतेष्वसार- द्रव्यं विक्रयार्थं मिश्रयतः षोडशपणो दण्डः ॥ किञ्च । “मृच्चर्म्ममणिसूत्रायःकाष्ठवल्कलवाससाम् । अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥” न विद्यते बहुमूल्या जातिर्यस्मिन् मृच्चर्म्मादिके तदजातिः तस्मिन् जातिकरणे विक्रयार्थं गन्ध- वर्णरसान्तरसञ्चारणेन बहुमूल्यजातीयसादृश्य- सम्पादने यथा मल्लिकामोदसञ्चारणेन मृत्ति- कायां सुगन्धामलकमिति । मार्जारचर्म्मणि वर्णोत्कर्षापादनेन व्याघ्रचर्म्मेति स्फटिकमणौ वर्णान्तरकरणेन पद्मराग इति कार्पासिके सूत्रे गुणोत्कर्षाधानेन पट्टसूत्रमिति कार्ष्णायसे वर्णोत्कर्षाधानेन रजतमिति विल्वकाष्ठे चन्द- नामोदसञ्चारणेन चन्दनमिति कक्कोले त्वगाख्यं लवङ्गमिति कार्पासिके वाससि गुणोत्कर्षा- धानेन कौशेयमिति विक्रेयस्यापादितस्य दृश्य- मृच्चर्म्मादेः पण्यस्याष्टगुणो दण्डो वेदितव्यः ॥ “समुद्गपरिवर्त्तञ्च सारभाण्डञ्च कृत्रिमम् । आधानं विक्रयं वापि नयतो दण्डकल्पना ॥ भिन्ने पणे तु पञ्चाशत् पणे तु शतमुच्यते । द्विपणे द्बिशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥” मुद्गं पिधानं मुद्गेन सह वर्त्तत इति समुद्गं करण्डकम् । परिवर्त्तनं व्यत्यासः । योऽन्यदेव मुक्तानां पूर्णं करण्डकं दर्शयित्वा हस्तलाघवे- नान्यदेव स्फटिकानां पूर्णकरण्डकं समर्पयति यश्च सारं भाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रयमाधिं वा नयति तस्य दण्डकल्पना वक्ष्य- माणा वेदितव्या । कृत्रिमकस्तूरिकादेर्मूल्य- भूते पणे भिन्ने न्यूने न्यूनपणमूल्यमिति । यावत्त- स्मिन् कृत्रिमे विक्रीयते पञ्चाशत्पणो दण्डः पणमूल्ये पुनः शतं द्बिपणमूल्ये द्बिशतो दण्ड इत्येवं मूल्यवृद्धौ दण्डवृद्धिरुन्नेया ॥ * ॥
बणिजः प्रत्याह । “सम्भूय कुर्व्वतामर्घं सबाधङ्कारुशिल्पिनाम् । अर्घस्य ह्रासं वृद्धिं वा जानतां दम उत्तमः ॥” राजनिरूपितार्घस्य ह्रासं वृद्धिं वा जानन्तो- ऽपि बणिजः सम्भय मिलित्वा कारूणां रजका- दीनां शिल्पिनां चित्रकरादीनां सबाधं पीडा- करमर्घान्तरं लाभलोभात् कुर्व्वन्तः पणसहसं दण्डनीयाः ॥ * ॥
किञ्च । “सम्भूय बणिजां पण्यमनर्घेणोपरुन्धताम् । विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ॥” ये पुनर्बणिजो मिलित्वा देशान्तरादागतं पण्यमनर्घण हीनमूल्येन प्रार्थयमाना उप- रुन्धन्ति महार्घण वा विक्रीणते तेषामुत्तम- साहसो विहितो दण्ड्यो मन्वादिभिः ॥ * ॥
केन पुनरर्घेण पणितव्यमित्याह । “राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः । क्रयो वा निस्रवस्तस्माद्बणिजां लाभकृत् स्मृतः ॥” राजनि सन्निहिते सति यस्तेनार्घः स्थाप्यते निरूप्यते तेनार्घेण प्रतिदिनं क्रयो विक्रयो वा कार्य्यः । निर्गतः स्रषो निस्रवोऽवशेषः तस्मा- द्राजनिरूपिताद्यो निस्रवः स एव बणिजां लाभकारी न पुनः स्वच्छन्दपरिकल्पितात् । मनुना चार्घ्यकरणे विशेषो दर्शितः । “पञ्चरात्रे पञ्चरात्रे पक्षे मासे तथा गते । कुर्व्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृप ! ॥” इति । किञ्च । “स्वदेशपण्ये च शतं बणिक् गृह्णीत पञ्चकम् । दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥” स्वदेशप्राप्तपण्यं गृहीत्वा यो विक्रीणीतेऽसौ पञ्चकं शतं पणशते पणपञ्चकं लाभं गृह्णीयात् । परदेशप्राप्ते पुनः पण्ये शतपणमृल्ये दशपणान् लाभं गृह्णीयात् । यस्य पण्यग्रहणदिवस एव विक्रयः सम्पद्यते । यः पुनः कालान्तरेऽपि विक्रीणीते तस्य कालोत्कर्षवशाल्लाभोत्कर्षः कल्प्यः । एवञ्च यथार्घे निरूपिते पणशते पञ्चपणो लाभो भवति तथैवार्घे राज्ञा स्वदेश- पण्यविषये स्थापनीयः ॥ * ॥
परदेशपण्ये अर्घनिरूपणप्रकारमाह । “पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् । अर्घोऽनुग्रहकृत् कार्य्यः क्रेतुर्विक्रेतुरेव च ॥” देशान्तरादागते पण्ये देशान्तरगमनप्रत्या- गमनभाण्डग्रहणशुल्कादिस्थानेषु यावानुप- युक्तोऽर्थस्तावन्तमर्थं परिगणय्य पण्यमूल्येन सह मेलयित्वा यथा पणशते दशपणो लाभः सम्प- द्यते तथा क्रेतृविक्रे त्रोरनुग्रहकार्य्योऽर्घो राज्ञा स्थापनीयः ॥ * ॥
प्रासङ्गिकं परिसमाप्याधुना विक्रीयासम्प्रदानम्प्रक्रमते । तत्स्वरूपं नारदे- नाभिहितम् । “विक्रीय पण्यं मूल्येन क्रेतुर्यन्न प्रदीयते । विक्रीयासम्प्रदानं तद्विवादपदमुच्यते ॥” तत्र विक्रेयद्रव्यस्य चराचरभेदेन द्बैविध्यमभि- धाय पुनः षड् विधत्वं तेनैव प्रत्यपादि । “लोकेऽस्मिन् द्विविधं पण्यं जङ्गमं स्थावरं तथा । षड्विधस्तस्य तु बुधैर्दानादानविधिः स्मृतः ॥ गणिकं तुलिमं मेयं क्रियया रूपतः श्रिया ॥” इति ॥ गणिकं क्रमुकफलादि । तुलिमं कुङ्कुमादि । मेयं शाल्यादि । क्रियया वाहदोहादिरूपयो- पलक्षितमश्वमहिष्यादि । रूपतः पण्याङ्ग- नादि । श्रिया दीप्त्या मरकतपद्मरागादि ॥ * ॥
इत्येतत् षट्प्रकारमपि पण्यं विक्रीयासंप्रय- च्छतो दण्डमाह । “गृहीतमूल्यं यः पण्यं क्रेतुर्न्नैव प्रयच्छति । सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते ॥” गृहीतं मूल्यं यस्य पण्यस्य विक्रेत्रा तद्गृहीत- मूल्यं तद्यदि विक्रेत्रा प्रार्थयमानाय स्वदेश- बणिजे क्रेत्रे न समर्पयति । तच्च पण्यं यदि क्रयकाले बहुमूल्यं सत् कालान्तरेऽल्पमूल्येनैव लभ्यते तदार्घह्रासकृतो य उदयो वृद्धिः पण्यस्य स्थावरजङ्गमात्मकस्य तेन सहितं पण्यं विक्रेता क्रेत्रे दापनीयः । यदा मूल्यह्रासकृतः पण्य- स्योदयो नास्ति किन्तु क्रयकाले यावदेव यतो मूल्यस्येयत्पण्यमिति प्रतिपन्नं तावदेव तदा तत् पण्यमादाय तस्मिन् देशे विक्रीणानस्य यो लाभस्तेनोदयेन सहितं द्विकं त्रिकमित्यादि प्रतिपादितवृद्धिरूपोदयेन वा सहितं क्रेतृ- वाञ्छावशाद्दापनीयः ॥ * ॥
यथाह नारदः । “अर्घश्चेदवहीयेत सोदयं पण्यमावहेत् । स्थानिनामेष नियमो दिग्लाभं दिग्विचारिणाम् ॥” इति ॥ यदा त्वर्घमहत्त्वेन पण्यस्य न्यूनभावस्तदा तस्मिन् पण्ये वस्त्रगृहादिके य उपभोगः तदाच्छादनसुखनिवासादिरूपो विक्रेतुस्तत्- सहितं पण्यमसौ दाप्यः । यथाह नारदः । “विक्रीय पण्यं मूल्येन यः क्रेतुर्न प्रयच्छति । स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥” इति ॥ विक्रेतुरुपभोगः क्षय उच्यते । क्रेतुः सम्बन्धि- त्वेन क्षीयमाणत्वान्न पुनः कुड्यपातशस्यघाता- दिरूपः । तस्य तु । “उपहन्येत वा पण्यं दह्येतापह्रियेत वा । विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः ॥” इत्यनेनोक्तत्वात् । यदा त्वसौ क्रेता देशान्तरात् पण्यग्रहणार्थ- मागतस्तदा तत् पण्यमादाय देशान्तरे विक्री- णानस्य यो लाभस्तेन सहितं पण्यं विक्रेता क्रेत्रे दापयितव्यः । अयञ्च क्रीतपण्यसमर्पण- नियमोऽनुशयाभावे द्रष्टव्यः । सति त्वनुशये क्रीत्वा विक्रीय वा किञ्चिदित्यादि मनूक्तं वेदितव्यम् ॥ * ॥
किञ्च । “विक्रीतमपि विक्रेयं पूर्ब्बक्रेतर्य्यगृह्णति । हानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेत् ॥” यदा पुनर्जातानुशयः क्रेता पण्यं न जिघृक्षति तदा विक्रीतमपि पण्यं अन्यत्र विक्रे यम् । यदा पुनर्विक्रेत्रा दीयमानं क्रेता न गृह्णाति तच्च पण्यं राजदैविकेनोपहतं तदा क्रेतुरेवासौ हानिर्भवेत् । पण्याग्रहणरूपेण क्रेतृदोषेण नाशितत्वात् ॥ * ॥
अपि च । “राजदैवोपघातेन पण्ये दोषमुपागते । हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥” यदा पुनः क्रेत्रा प्रार्थ्यमानमपि पण्यं विक्रेता न समर्पयति अजातानुशयोऽपि तच्च राज- दैविकेनोपहतं भवति तदासौ हानिर्विक्रेतुरे- वातोऽन्यददुष्टं पण्यं विनष्टसदृक्षं क्रेत्रे देयम् ॥ किञ्च । “अन्यहस्ते च विक्रीतं दुष्टं वा दुष्टवद्यदि । विक्रीणीते दमस्तत्र मूल्यात्तु द्विगुणो भवेत् ॥” यः पुनर्विनैवानुशयमेकस्य हस्ते विक्रीतं पुन रन्यस्य हस्ते विक्रीणीते सदोषं वा पण्यं प्राच्छा- दितदोषं विक्रीणीते तदा तत्पण्यमूल्यात् द्बिगुणो दमो वेदितव्यः । * । नारदेनाप्यत्र विशेषो दर्शितः । “अन्यहस्ते तु विक्रीय योऽन्यस्मै तत्प्रयच्छति । द्रव्यं तद्द्विगुणं दाप्यो विनयं तावदेव तु ॥ निर्द्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति । स मूल्याद्द्विगुणं दाप्यो विनयं तावदेव ते ॥” इति ॥ सर्व्वश्चायं विधिर्दत्तमूल्ये पण्ये द्रष्टव्यः । अदत्त- मूल्ये पुनः पण्ये वाङ्मात्रक्रये क्रेतृविक्रेत्रो- र्नियमकारिणः समयादृते प्रवृत्तौ निवृत्तौ वा न कश्चिद्दोषः ॥ * ॥
यथाह नारदः । “दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्त्तितः । अदत्तेऽन्यत्र समयान्न विक्रेतुरविक्रयः ॥” इति ॥ विक्रयानुशयोऽभिहितः क्रीतानुशयस्वरूपं तु प्राक् प्रपञ्चितमधुना तदुभयसाधारणं धर्म्म- माह । “क्षयं वृद्धिं च बणिजा पण्यानामविजानता । क्रीत्वा नानुशयः कार्य्यः कुर्व्वन् षड्भागदण्ड- भाक् ॥” परीक्षितक्रीतपण्यानां क्रयोत्तरकालं क्रय- कालपरिमाणतोऽर्घकृतां वृद्धिमपश्यता क्रेत्रा- नुशयो न कार्य्यः । विक्रेत्रा च महार्घनिबन्धनं पण्यक्षयमपश्यता नानुशयितव्यम् । वृद्धिक्षय- परिज्ञाने पुनः क्रेतृविक्रेत्रोरनुशयो भवतीति व्यतिरेकादुक्तम्भवति । अनुशयकालावधिश्च नारदेनोक्तः । “क्रीत्वा मूल्येन यः पण्यं दुःक्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत् तस्मिन्नेवाह्न्यविक्षतम् ॥ द्धितीयेऽह्नि ददत् क्रेता मूल्यात्त्रिंशांशमा- वहेत् । द्विगुणन्तु तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥” इति ॥ अपरीक्षितक्रयविक्रये पुनः पण्यवैगुण्यनिबन्ध- नानुशयावधि दशैकपञ्चसप्ताहेत्यादिना दर्शित एव । तदनया वाचो युक्त्या वृद्धिक्षयपरिज्ञान- स्यानुशयकारणत्वमवगम्यते । यथा पण्यपरी- क्षाविधिबलात् पण्यदोषाणां अतः पण्यदोषे तद्वृद्धिक्षयकारणत्रितयाभावेऽनुशयकालाभ्य- न्तरेऽपि यद्यनुशयं करोति तदा पण्यषड् भागं दण्डनीयः । अनुशयकारणसद्भावेऽपि अनुशय- कालातिक्रमेणानुशयं कुर्व्वतोऽप्ययमेव दण्डः । उपभोगेनाविनश्वरेषु स्थिरार्थेष्वनुशयकालाति- क्रमेणानुशयं कुर्व्वतो मनूक्तो दण्डो द्रष्टव्यः । “परेण तु दशाहस्य न दद्यान्नापि दापयेत् । आददानो ददच्चैव राज्ञा दण्ड्यः शतानि षाट् ॥” इति मिताक्षरायां विक्रीयासम्प्रदानं नाम प्रकरणम् ॥ अथ बृहस्पतिः । “कुषीदकृषिबाणिज्यं प्रकुर्व्वीतास्वयं कृतम् । आपत्काले स्वयं कुर्व्वन् नैनसा लिप्यते द्विजः ॥ लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चैव पूजयेत् । ते तुष्टास्तस्य तं दोषं शमयन्ति न संशयः ॥ बणिक् कुषीदी दद्यात्तु वस्त्रगोकाञ्चनादिकम् । बणिक् कुषीद्यदोषः स्यात् ब्राह्मणानाञ्च पूज- नात् ॥” इत्याह्निकतत्त्वम् ॥



Correction: