वाचस्पत्यम्
वातकिन् || त्रि० वातोऽस्त्यस्य इनि कुक् च । वातरोगयुक्ते अमरः स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
वातकी || [न्] त्रि, (वातोऽतिशयितोऽस्त्यस्येति । वात + “वातातीसाराभ्यां कुक् च ।” ५ । २ । १२९ । इति इनिः । कुक् च ।)
वातरोगयुक्तः । तत्प- र्य्यायः । वातरोगी २ । इत्यमरः । २ । ६ । ५९ ॥