वाचस्पत्यम्
वातचक्र || न० वृ० स० २७ अ० उक्ते पूर्वादिवातानां कालभेदेन शुभाशुभमूचके वहनभेदे “पूर्वः पूर्वसमुद्रवीचिशिखरप्रस्फालनाघूर्णितश्चन्द्रार्कांशु- सटाभिघातकलितो वायुर्यदाकाशतः । नैकान्तस्थित- नीलमेघपटलां शारद्यसंवर्धितां वासन्तोत्कटसस्वमण्डि- ततलां विद्यात्तदा मेदिनीम् । यदाग्नेयो वायुर्मलय- शिखरास्फालनपटुः प्लवत्यस्मिन्योगे भगवति पतङ्गे प्रवसति । तदा नित्योद्दीप्ता ज्वलनशिखरालिङ्गिततला स्वगात्रोष्मोच्छ्वासैर्वमति वसुधा भस्मनिकरम् । ताली- पत्रलतावितानतरुभिः शाखामृगान्नर्तयन् योगेऽस्मिन् प्लवति ध्वनन्सुपरुषो वायुर्यदा दक्षिणः । सर्वोद्योग- समुन्नताश्च गजवत्तालाङ्कुशैर्घट्टिताः कोनाशा इव म- न्दवारिकणिकान्मुञ्चन्ति मेघास्तदा । सूक्ष्मैलालवलीलव- ङ्गनिचयान् व्याघूर्णयन् सागरे भानोरस्तमये प्लवत्य- विरतो वायुर्यदा नैरृतः । क्षुत्तृष्णामृतमानुषास्थिशकल- प्रस्तारभारच्छदा मत्ता प्रेतबधूरिवोग्रचपला भूमिस्तदा लक्ष्यते । यदा रेणूत्पातैः प्रविकटसटाटोपचपलः प्र- वातः पश्चार्धे दिनकरकरापातसमये । तदा सस्योपेता प्रवरनृवराबद्धसमरा धरा स्थाने स्थानेऽप्यविरतवसार्मास- रुधिरा । आषाढीपर्वकाले यदि किरणततेरस्तकालोप- पत्तौ वायव्यो बद्धवेगः प्लवति घनरिपुः पन्नगादानुकारी । जानीयाद्वारिधाराप्रमुदितमुदितां मुक्तमण्डूककण्ठां सस्योद्भासैकचिह्नां सुखबहुलतया भाग्यमेनामिवोर्वीम् । मेरुग्रस्तमरीचिमण्डलतले ग्रीष्मावसाने रवौ वात्यामो- दिकदम्बगन्धसुरभिर्वायुर्यदा चोत्तरः । विद्युद्भ्रान्ति- समस्तकान्तिकलनामत्तास्तदा तोयदा उन्मत्ता इव न- ष्टचन्द्रकिरणां गां पूरयन्त्यम्बुभिः । ऐशानो यदि शीतलोऽमरगणैः संसेव्यमानो भवेत् पुन्नागागुरुपारि- जातसुरभिर्वायुः प्रचण्डध्वनिः । आपूर्णोदकयौवना वसुमती सम्पन्नसस्याकुला धर्मिष्ठाः प्रणतारयो नृप- रयो रक्षन्ति वर्णांस्तदा” ।