संस्कृत-शब्दकोशः

वातध्वज वातपुत्र

वातपित्तजशूल

शब्दकल्पद्रुमः

वातपित्तजशूलं || क्ली (वातपित्ताभ्यां जायते इति । जन् + डः । तच्च तत् शूलञ्चेति ।)
शूल- रोगविशेषः । तस्य औषधं यथा, —
“मातुलुङ्गस्य निर्यासं गुडाज्येन समन्वितम् । वातपित्तजशूलानि हन्ति वै पानयोगतः ॥” इति गारुडे १८८ अध्यायः ॥ (तथास्यान्या चिकित्सा । यथा, —
“दुरालभा पर्पटकञ्च विश्वा पटोलनिम्बाम्बुदतिन्तिडीकम् । सशर्करं कल्कमिदं प्रयोज्यं सपित्तवातोद्भवशूलशान्त्यै ॥” इति हारीते चिकित्सितस्थानेऽष्टमेऽध्याये ॥)



Correction: