वाचस्पत्यम्
वातप्रमी || पुंस्त्री० वातं प्रमिणोति प्र + मा—ई किच्च । १ शीघ्रगे मृगे (वाओटा) अमरः ।
शब्दकल्पद्रुमः
वातप्रमीः || पुं, स्त्री, (वातं प्रमिमीते वाताभि- मुखं गच्छतीति । वात + प्र + मा माने + “वातप्रमीः ।” उणा० ४ । १ । इति ईप्रत्ययेन साधुः ।)
वातमृगः । इत्यमरः । २ । ५ । ७ ॥ वाओट् हरिण इति भाषा ॥ नकुलः । अश्वः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (वायुवद्वग- गामिनि, त्रि । यथा, ऋग्वेदे । ४ । ५८ । ७ । “सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पत- यन्ति यह्वाः ॥”)