वाचस्पत्यम्
वातरक्त || न० वातजं दुष्टं रक्तम् रुधिरं यत्र । रोगभेदे ||“लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः । क्लिन्न- शुष्काम्बुजानूपमांसपिण्कमूलकैः । कुलत्थमाषान- ष्पावशाकादिपललेक्षुभिः । दध्यारनालभौवीरशुक्ततक्र- सुरासवैः । विरुद्धाध्यशनक्रौधदिवास्वप्नातिजागरैः । प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् । स्थूलाना सुखिनां चापि प्रकुष्येद्वातशोणितम् । हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं संविदाहाशनस्य” । क्षारो यवक्षारादिः । अजीर्णभोजनैः अजीर्णाय भो- जनैः अतिमात्रभोजनैरित्यर्थः । क्लिन्नादीनि मांसस्य विशेषणानि । क्लिन्नं शटितम् । शुष्कमातपे शोषितम । अम्बुजं मत्स्यादिमांसम् । आनूपं गौडादिपूर्वदेशजं मासम् । पिण्याकं तिलखलिः । मूलकं प्रसिद्धमेव । निष्पावः (वोडा) शाकम् । शाकं पत्रशाकम् । आदिश- ब्देन वृन्ताकादीनि फलशाकानि गृह्यन्वे । पललं शटितत्वादिदोषरहितमपि मांसं वातशोणितं प्रकोपयेत् । शटितादि तु मांसं विशेषतो वातशोणितं प्रकोपयेत् । आरनालं सन्धानभेदः । शुक्तं सन्धान- भेदः । सौवीरं सन्धानभेदः । तक्रं चतुर्थांशजल- युक्तं वस्त्रपूतं दधि । सुरा सन्धानभेदः । आसवः सन्धानभेदः । विरुद्धं क्षीरमत्स्यादि । अध्यशनम् । “अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते” । अतिजागरो- निशि । प्रायशः बाहुल्येन । सुकुमाराणाम् अल्पतर- कायव्यापाराणाम् । अथ वा । मिथ्याहारविहा- रिणाम् अयथाहारबिहाराभ्यां स्थूलानां सुखि- नाञ्च रक्तवृद्ध्या हस्ताश्वाष्ट्रैर्गच्छतः यतो वायुर्विव- र्द्धते रुधिरञ्चाधो गच्छति । हस्त्यादय उपलक्षणानि । पद्भ्यामप्यतिचलतः । अश्नतः विदाह्यन्नम् । विदाहि निष्पावकुलत्थसर्षपशाकादि । मंविदाहाशनस्य । सविदाहेऽशनं यस्य भुक्ते विदग्धे तदुपरि भुञ्जा- नस्येत्यर्थः । अध्यशनमुक्त्वाप्येतद्वचनं विदन्धाजीर्ण- भोजनस्य विशेषतो हेतुत्वार्थम् । पश्चात् वातशो- णितं प्रकुप्येदित्यनेनान्वयः । एतेषां कारणानां मध्ये केनञ्चिद्वायः केनचिदुभयमपि प्रकुप्येत् । संप्राप्ति- माह “कृत्स्नं रक्तं विदहत्याशु तच्च दुष्टं स्रस्तं पाद- योश्चीयते तु । तत् संपृक्तं वायुना दूषितेन तत् प्रा- वल्यादुच्यते वातरक्तम्” । पूर्वोक्तैर्हेतुमिः कृत्स्नं स- मस्तं रक्तं विदहति अत्र दहधातुरविवक्षितकर्मकः । तेन विदहति विदग्धं भवतीत्यर्थः तच्च दुदरक्तम् । स्रस्तम् अधोगतम् पादयोश्चीयते सञ्चितं भवति । तद्रु- धिरं दूषितेन स्वहेतुना संपृक्तं मिलितं वातरक्तम् उच्यते । नमु चैतस्य संप्राप्तिरुक्ता सुश्रुतेन “शीघ्रं रक्तं दुष्टिमायाति तच्च वायोर्मार्गं संरुणद्ध्याशु वातः । क्रुद्धोऽत्यर्थं मार्गरोधात् स वायुरत्युद्रिक्तं दूषयेद्रक्त- माशु” । अत्र प्रथमं रक्तस्य दुष्टिरतो रक्तवातमिति ष्यपदेष्टुमुचितं भवत्यत आह तत्प्राबल्यादिति । तस्य वातस्य दोषत्वेन प्राधान्याद्वातरक्तमिति व्यप- दिश्यते । पूर्वरूपमाह “स्वेदोऽत्यर्थं न वा कार्श्यं स्पर्शाज्ञत्वं क्षतेऽतिरुक् । सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः । जानुजङ्घोरुकट्यंसहस्तवादाङ्गम- न्धिषु । निस्तोदस्फुरणं भेदो गुरुत्वं सुप्तिरेव च । कण्डूः सन्धिषु रुग्दाहो भूत्वा नश्यति चासकृत् । वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम्” । आथाधि कृतवातस्य रक्तस्य लक्षणमाह “वातेऽधिकेऽधिकं तत्र शूलस्फुरणतोदनम् । शोथस्य रौक्ष्यं कृष्णत्वं श्या- वतावृद्धिहानयः । धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्ग- ग्रहोऽतिरुक् । शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः” । तत्र पादयोः शूलादिकमधिकम् यत आह सुश्रुतः “स्पर्शोद्विग्नौ तोदभेदप्रशोफौ स्वापोपेतौ वातरक्तेन पादाविति” । अत्र सुप्तिः स्पर्शाज्ञता । अधिकरक्तं वात- रक्तमाह “रक्ते शोथोऽतिरुक् तोदस्ताम्रश्चिमिचि- भायते । सिग्धरूक्षैः समं नैति कण्डूतक्लेदसम- न्वितः” । अधिकपित्तं तदाह “पित्ते विदाहः संमोहः स्वेदो मूर्च्छामदस्तथा । स्वर्शासहत्वं रुग्दाहः शोथपाकौ भृशोष्णता” । विदाहश्च पादयोरेव वोद्धव्यः यत आह सुश्रुतः “पित्तासृग्भ्यामुग्रदाहो भवेतामत्यर्थोष्णौ रक्त- शोथौ मृदू च” । पादाविति शेषः । अधिककफं त- दाह “कफाधिक्ये तुं गुरुता सुप्तिः स्निग्धत्वशीतता” । गुरुतादयः पादयोरेव यत आह सुश्रुतः कण्डू- नन्तौ स्वेदशीतौ सशोथौ पीनस्तब्दौ श्लेष्मदुष्टे तु रक्ते” । अप्रतिक्रियमाणवातरक्तस्य उपद्रवानाह “अस्वप्नारोचकश्वासमांसकोर्थाशरोग्रहाः । मूर्च्छा च मन्दरुग् तृष्णाज्वरमोहप्रकोपकाः । हिक्कामगुल्म वीसर्पपाकतोदभ्रभक्लमाः । अङ्गुलीवक्रतास्फोटदाह मर्मग्रहार्बुदाः” मांसकोथो मांसगलनम् । असाध्यत्वा- दिकमाह “एतैरुपद्रवैर्वर्ज्यं मोहेनैकेन वापि यत् । अकृत्स्नोपद्रवं याप्यं साध्यं स्यान्निरुपद्रवम् । एक- दोषनुगं साध्यं नवं याप्यं द्विदोषजम् । त्रिदोषज- मसाध्यं स्याद्यस्य च ल्युरुपद्रवाः” ।
शब्दकल्पद्रुमः
वातरक्तं || क्ली (वातदूषितं रक्तं यत्र ।)
रोग- विशेषः । तस्य विप्रकृष्टं निदानमाह । “लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः । क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः ॥ कुलत्थमासनिष्पावशाकादिपललेक्षुभिः । दध्यारनालसौवीरशुक्ततक्रसरासवैः ॥ विरुद्धाध्यशनक्रोधदिवास्वप्नातिजागरैः । प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् । स्थूलानां सुखिनां चापि प्रकुप्येद्वातशोणितम् ॥ हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं संविदाहाशनस्य ॥ * ॥
क्षारो यवक्षारादिः । अजीर्णभोजनैः अजी- र्णाय भोजनैः । अतिमात्रभोजनैरित्यर्थः । क्लिन्नादीनि मांसस्य विशेषणानि । क्लिन्नं शटि- तम् । शुष्कमातपे शोषितम् । अम्बुजं मत्स्यादि- मांसम् । आनूपं गौडादिपूर्व्वदेशजं मांसम् । पिण्याकं तिलखलिः । मूलकं प्रसिद्धमेव । निष्पावः वोडाशाकम् । शाकं पत्रशाकम् । आदिशब्देन वृन्ताकादीनि फलशाकानि गृह्यन्ते । पललं शटितत्वादिदोषरहितमपि मांसं वात- शोणितं प्रकोपयेत् । शटितादि तु मांसं विशेषतो वातशोणितं प्रकोपयेत् । आरनालं सन्धानभेदः । शुक्तं सन्धानभेदः । सौवीरं सन्धानभेदः । तक्रं चतुर्थांशजलयुक्तं बस्त्रपूतं दधि । सुरा सन्धानभेदः । आसवः सन्धान- भेदः । विरुद्धं क्षीरमत्स्यादि । अध्यशनम् । अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते । अतिजागरो निशि । प्रायशः बाहुल्येन । सुकु- माराणां अल्पतरकायव्यापाराणाम् । अथवा मिथ्याहारविहारिणाम् । अयथाहारविहा- राभ्यां स्थूलानां सुखिनाञ्च रक्तवृद्ध्या । हस्त्य- श्वोष्ट्रैर्गच्छतः यतो वायुर्व्विवर्द्धते रुधिरञ्चाधो गच्छति । हस्त्यादय उपलक्षाणि । पद्भ्या- मप्यति चलतः । अश्नतः विदाह्यन्नम् । विदाहि निष्पावकुलत्थसर्षपशाकादि । संविदाहाशनस्य । संविदाहेऽशनं यस्य भुक्ते विदग्धे तदुपरि भुञ्जानस्येत्यर्थः । अध्यशनमुक्त्वाप्येतद्वचनं विदग्धाजीर्णभोजनस्य विशेषतो हेतुत्वार्थम् । पश्चात् वातशोणितं प्रकुप्येदित्यनेनान्वयः । एतेषां कारणानां मध्ये केनचिद्वायुः केन- चिदुभयमपि प्रकुप्येत् ॥ * ॥
संप्राप्तिमाह । “कृत्स्नं रक्तं विदहत्याशु तच्च दुष्टं स्रस्तं पादयोश्चीयते तु । तत् संपृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् ॥” पूर्व्वोक्तैर्हेतुभिः कृत्स्नं समस्तं रक्तं विदहति अत्र दहधातुरविवक्षितकर्म्मकः । तेन विद- हति विदग्धं भवतीत्थर्थः । तच्च दुष्टं रक्तम् । स्रस्तं अधोगतम् । पादयोश्चीयते सञ्चितं भवति । तद्रुधिरं दूषितेन स्वहेतुवायुना संपृक्तं मिलितं वातरक्तं उच्यते । ननु चैत्रस्य संप्राप्तिरुक्ता सुश्रुतेन । “शीघ्रं रक्तं दुष्टिमायाति तच्च वायोर्मार्गं संरुणद्ध्याशु वातः । क्रुद्धोऽत्यर्थं मार्गरोधात् स वायु- रत्युद्रिक्तं दूषयेदुक्तमाशु ॥” अत्र प्रथमं रक्तस्य दुष्टिरतो रक्तवातमिति व्यपदेष्टुमुचितं भवत्यत आह । तत्प्राबल्या- दिति । तस्य वातस्य दोषत्वेन प्राधान्याद्वात- रक्तमिति व्यपदिश्यते ॥ * ॥
पूर्व्वरूपमाह । “स्वेदोऽत्यर्थं न वा कार्श्यं स्मर्शाज्ञत्वं क्षतेऽति- रुक् । सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः ॥ जानुजङ्घोरुकट्यंशहस्तपादाङ्गसन्धिषु । निस्तोदः स्फुरणं मेदो गुरुत्वं सुप्तिरेव च ॥ कण्डूः सन्धिषु रुक् दाहो भूत्वा नश्यति चास- कृत् । वैवर्ण्यं मण्डलोत्पत्तिर्व्वातासृक्पूर्ब्बलक्षणम् ॥” अथाधिकृतवातस्य वातरक्तस्य लक्षणमाह । “वातेऽधिकेऽधिकं तत्र शूलस्फुरणतोदनम् । शोथस्य रौक्षं कृष्णत्वं श्यावतावृद्धिहानयः ॥ धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक् । शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ॥” तत्र पादयोः शूलादिकमधिकम् । यत आह सुश्रुतः । “स्पर्शोद्विग्नौ तोदभेदप्रशोफौ स्वापोपेतौ वातरक्तेन पादौ ॥” इति । अत्र सुप्तिः स्पर्शाज्ञता ॥ * ॥
अधिकरक्तं वात- रक्तमाह । “रक्ते शोथोऽतिरुक् तोदस्ताम्रश्चिमिचिमा- यते । स्निग्धरूक्षैः समं नैति कण्डूत्क्लेदसमन्वितः” अधिकपित्तं तदाह । “पित्ते विदाहः संमोहः स्वेदो मूर्च्छा मद- स्तृषा । स्पर्शासहत्वं रुग्दाहः शोथपाकौ भृशोष्णता ॥ विदाहश्च पादावेव बोद्धव्यः । यत आह सुश्रुतः । पित्तासृग्भ्यामुग्रदाहौ भवेता- मत्यर्थोष्णौ रक्तशोथौ मृदू च ॥ पदाविति शेषः ॥ अधिककफं तदाह । कफैस्तैमित्यगुरुतासुप्तिस्निग्धत्वशीतताः । गुरुतादयः पादयोरेव । यत आह सुश्रुतः । कण्डूमन्तौ स्वेदशीतौ सशोथौ पीनस्तब्धौ श्लेष्मदुष्टे तु रक्ते ॥ * ॥
अतिक्रियमाणवातरक्तस्य उपद्रवानाह । “अस्वप्नारोचकश्वासमांसकोथशिरोग्रहाः । मूर्च्छा च मन्दरुक् तृष्णा ज्वरमोहप्रकोपकाः ॥ हिक्वायाङ्गुल्मवीसर्पपाकतोदभ्रमक्लमाः । अङ्गुलीवक्रतास्फोटदाहमर्म्मग्रहार्व्वुदाः ॥” मांसकोथो मांसगलनम् ॥ * ॥
असाध्यत्वादिक- माह । “एतैरुपद्रवैर्व्वर्ज्यं मोहेनैकेन वापि यत् । अकृत्स्नोपद्रवं याप्यं साध्यं स्यान्निरुपद्रवम् ॥ एकदोषानुगं साध्यं नवं याप्यं द्बिदोषजम् । त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्रवाः ॥” अथ वातरक्तस्य चिकित्सामाह । “वातशोणितिनो रक्तं स्निग्धस्य बहुशो हरेत् । अल्पाल्पं रक्षयेद्वायुं यथादोषं यथाबलम् ॥ उग्राङ्गदाहतोदेषु जलौकोभिर्विनिर्हरेत् । शृङ्गतुम्बैश्चिमिचिमाकण्डूरुग्वेदनान्वितम् ॥ प्रच्छिन्नेन शिराभिर्व्वा देशाद्देशान्तरं व्रजेत् । अङ्गे म्लाने न तत् स्राव्यं रूक्षे वातोत्तरञ्च यत् । गम्भींरं श्वयथुं स्तम्भं कम्पं ग्लानिं शिरा- मयात् । रोगानन्यांश्च वातोत्थान् कुर्य्याद्वायुररक्षितः ॥ विविधान् वातरोगान् वा मृत्युं वात्यवशेषितम् । रक्तं कुर्य्यात्ततः स्निग्धात्तत्प्रमाणेन निर्हरेत् ॥ विरेचयेत्तु पित्तादौ स्नेहयुक्तैर्विरेचनैः । बाह्यमालेपनाभ्यङ्गपरिषेकोपनाहनैः । विरेकास्थापना स्ने हपानैर्गम्भीरमाचरेत् ॥ दिवास्वप्नञ्च कोपञ्च व्यायामं मैथुनं तथा । कटूष्णं गुर्व्वभिष्यन्दि लवणाम्लौ च वर्ज्जयेत् ॥ पुराणा यवगोधूमशालयः षष्टिकास्तथा । भोजनार्थे रसार्थेतु विष्किराः प्रतुदा हिताः ॥ आढकाश्चणका मुद्गा मसूराः सकुलत्थकाः । यूषार्थे बहुसपिष्काः प्रशस्ता वातशोणिते ॥ सुनिषण्णकवेत्राग्रं काकमाची शतावरी । वास्तूकोपोदिकाशाकं शाकं सौवर्च्चलं तथा ॥ घृतमांसरसैर्भृष्टं शाकमतस्या च दापयेत् । हितो गोधूमचूर्णैश्च छागक्षीरघृतप्लुतैः ॥ लेपस्तद्वत्तिला भृष्टाः पिष्टाः पयसि निर्व्वृताः ॥ क्षीरपिष्टातसीभिर्व्वा वर्द्धमानफलैरपि । दुग्धपिष्टैः प्रलेपैः स्याद्धितः पवनशोणिते ॥ गुडूचीक्वाथकल्काभ्यां सपयस्कं पलं सृतम् । वातरक्तं निहन्त्याशु कुष्ठं हरति दुस्तरम् ॥” गुडूचीघृतम् ॥ * ॥
“तुलां पचेद्गुडूच्यास्तु जलद्रोणचतुष्टये । पादशेषः कषायस्तु गोदुग्धं द्रोणकस्तथा ॥ तिलतैलाढकं ताभ्यां पचेन्मृद्वग्निना भिषक् । वक्ष्यमाणैस्ततो द्रव्यैः सम्यक्कल्कीकृतैः पचेत् ॥ मञ्जिष्ठा मधुकं कुष्ठं जीवनीयगणस्तथा । एलागुरु च मृद्वीका मांसी व्याघ्रनखो नखी ॥ हरेणुः श्रावणी व्योषं स्थिरा त्वामलकी तथा । शृङ्गी श्यामा शताह्वा च विष्णुक्रान्ता च पत्रकम् ॥ नागकेशरवालत्वक्पद्मकोत्पलचन्दनम् । एतानि कल्कवस्तूनि कथितानीह कोविदैः ॥ पानेऽभ्यङ्गेऽनुवासे च तैलमेतन्निषेविणम् । वातरक्तं तदुद्भूतोपद्रवानाशु नाशयेत् ॥ धन्यं पुंसवनं स्त्रीणां गर्भदं वातपित्तनुत् । स्वेदकण्डूरुजायामशिरःकम्पार्द्दितामयान् । हन्याद्व्रणकृतान् दोषान् गुडूचीतैलमुत्तमम् ॥” इति गुडूचीतैलम् । इति भावप्रकाशः ॥ (यथा च । “हुताग्निहोत्रमासीनमृषिमध्ये पुनर्व्वसुम् । पृष्टवान् गुरुमेकाग्र्यमग्निवेशोऽग्निवर्च्चसम् ॥ अग्निमारुततुल्यस्य संसर्गस्यानिलासृजोः । हेतुलक्षणभैषज्यान्यथास्मै गुरुरब्रवीत् ॥” “अभिघातादशुद्ध्या च प्रदुष्टे शोणिते नृणाम् । कषायकटुतिक्ताल्परुक्षाहारादभोजनात् ॥ हयोष्ट्रयानयानाम्बुक्रीडाप्लवनलङ्घनात् । उष्णे चात्यध्वगमनाद्ब्यवायाद्वेगनिग्रहात् ॥ वायुर्विवृद्धो वृद्धेन रक्तेनावारितः पथि । क्रुद्धस्तद्दूषयेद्रक्तं तज्ज्ञेयं वातशोणितम् ॥ खुडं वातबलासाख्यमाढ्यं वातञ्च नामभिः । तस्य स्थानं करौ पादावङ्गुल्यः पर्व्वसन्धयः ॥ कृत्वादौ हस्तपादे तु मूलं देहो विधावति । सौक्ष्म्यात् सर्व्वसवत्वाच्च देहं गच्छन् शिरायवैः । पर्व्वस्वभिहतं क्षुब्धं वक्रत्वादभितिष्ठते । स्थितं पित्तादिसंसृष्टं तास्ताः सृजति वेदनाः ॥ करोति दुःखं तेष्वेव तस्मात् प्रायेण सन्धिषु ॥” “उत्तानमथ गम्भीरं द्विविधन्तत् प्रचक्षते । त्वङ्मांसाश्रयमुत्तानं गम्भीरन्त्वन्तराश्रयम् ॥ कण्डूदाहरुगायासतोदस्फुरणकुञ्चनैः । अन्विता श्यावरक्ता त्वग्वाह्ये ताम्रा तथेष्यते ॥ गम्भीरे श्वयथु स्तब्धः कठिनोऽन्तर्भृशार्त्तिमान् । श्यावस्ताम्रोऽथवा दाहतोदस्फुरणपाकवान् ॥ रुग्विदाहा त्वतोऽभीक्ष्णं वायुः सन्ध्यस्थिमज्जसु । छिन्दन्निव चरत्यन्तर्वक्रीकुर्व्वंश्च वेगवान् ॥ करोति खञ्जं पङ्गुं वा शरीरे सर्व्वतश्चरन् । सर्व्वैर्लिङ्गेश्च विज्ञेयं वातासृगुभयाश्रयम् ॥” “रक्तमार्गं निहन्त्याशु शाखासन्धिषु मारुतः । निवेश्यान्योन्यमावार्य्य वेदनाभिर्हरेदसून् ॥ तत्र मुञ्चेदसृक्शृङ्गजलौकः सूच्यलावुभिः । पुच्छनैर्व्वा शिराभिर्वा यथादोषं यथाबलम् ॥ रुग्दाहशूलतोदार्त्तादसृक्स्राव्यं जलौकसा । शृङ्गैस्तम्भैर्हरेत् सूतिकण्डूचिमिचिमायनात् ॥ देशाद्देशं व्रजत् स्राव्यं शिराभिः पुच्छनेन वा ॥” “सर्पिस्तैलवसामज्जापानाभ्यञ्जनवस्तिभिः । मुखोष्णैरुपनाहैश्च वातोत्तरमुपाचरेत् ॥ विरेचनघृतक्षीरपानैः सेकैः सवस्तिभिः । शीतैर्निर्वापनैश्चापि रक्तपित्तोत्तरं जयेत् ॥ वमनं मृदुनात्यर्थं स्नेहसेकादिलङ्घनम् । कोष्णलेपाश्च शस्यन्ते वातरक्ते कफोत्तरे ॥ कफवातोत्तरे शीतैः प्रलिप्ते वातशोणिते । विदाहः शोथरुक्कण्डूविवृद्धिः स्तम्भनाद्भवेत् ॥ पित्तरक्तोत्तरे दाहः क्लेदोऽवदरणं भवेत् । उष्णैस्तस्माद्भिषग्दोषबलं बुद्ध्वाचरेत् क्रियाम् ॥” “दत्त्वापरूषकद्राक्षाकाश्मर्य्येक्षुरसान् समान् । पृथग्विदार्य्याश्च रसं तथा क्षीरञ्चतुर्गुणम् ॥ एतत् प्रायोगिकं सर्पिः पारूषकमिति स्मृतम् । वातरक्ते क्षते क्षीणे वीसर्पे पैत्तिके ज्वरे ॥” इति पारूषकं घृतम् ॥ * ॥
“मधुपर्ण्याः पलं पिष्ट्वा तैलप्रस्थं चतुर्गुणे । क्षीरे साध्यं शतकृत्वस्तदेवं मधुकात् शते ॥ सिद्धं देयं त्रिदोषे स्यात् वातास्रश्वासकासनुत् । हृत्पाण्डुरोगवीसर्पकामलादाहनाशनम् ॥ वलाकषायकल्काभ्यां तैलं क्षीरसमन्तथा । सहसशतपाकं वा वातासृग्वातरोगनुत् ॥ रसायनं श्रेष्ठतमं इन्द्रियाणाम्प्रसादनम् । जीवनं वृं हणं स्वर्य्यं शुक्रासृग्दोषनाशनम् ॥” “चन्द्रपादाम्बुसंसिक्ते क्षौमपद्मदलच्छदे । शयने पुलिनस्पर्शे शीतमारुतवीजिते ॥ चन्दनार्द्रकरार्द्राङ्ग्यः प्रिया नार्य्यः प्रियंवदाः । स्पर्शात् शीतसुखस्पर्शा घ्नन्ति दाहं रुजं क्लमम् ॥” “गम्भीरे रक्तमाक्रान्तं स्याच्चेद्धातुं विवर्ज्जयेत् । रक्तपित्तातिवृद्ध्या तु पाकमाशु नियच्छति ॥ भिन्नं सवति वा रक्तं विदग्धं पूयमेव वा । तयोः क्रिया विधातव्याः व्यधः शोधनरोपणौ ॥ कुर्य्यादुपद्रवाणाञ्च क्रियां स्वात् स्वाच्चिकित्- सितात् ॥” इति चरके चिकित्सास्थाने २९ अध्यायः ॥ “गन्धकं पारदं लौहं घनं तालं मनःशिला । शिलाजतु पुरं शुद्धं समभागं विचूर्णयेत् ॥ विडङ्गं त्रिफला व्योषं वागुजी च पुनर्नवा । चित्रकं देवकाष्ठञ्च दार्व्वी श्वेतापराजिता ॥ चूर्णमेषां पृथ तुल्यं सर्व्वमेकत्र कारयेत् । त्रिफलाभृङ्गराजस्य रसेनैव पृथक् त्रिधा ॥ विभाव्य भक्षयेत् प्रातर्माषमात्रं दिने दिने । क्रमानुपानं निम्बस्य पत्रं पुष्पं वचं समम् ॥ शाणमात्रं घृतैर्दद्यात् सर्व्ववात विकारनुत् । वातरक्तं महाघोरं गम्भीरं सर्व्वजञ्जयेत् ॥ सर्व्वोपद्रवसंयुक्तं साध्यासाध्यं निहन्त्यलम् ॥” इति वातरक्तान्तको रसः ॥ * ॥
“अथ शुद्धेन तालेन गन्धतुल्येन मेलयेत् । द्वयोस्तुल्यं जीर्णताम्रं वालुकायन्त्रके पचेत् ॥ अयन्तालेश्वरो नाम रसः परमदुर्ल्लभः । हन्यात् कुष्ठानि सर्व्वाणि वातरक्तमथापि वा । शूलमष्टविधं श्वित्रं रसस्तालेश्वरो महान् ॥” इति महातालेश्वरो रसः ॥ इति वैद्यकरसेन्द्रसारसंग्रहे वातरक्ताधिकारे ॥ अथात्र पथ्यापथ्यविधिः । “द्वयोरस्रस्रुतिः सूचीजलौकाशृङ्ग्यलावुभिः । शतधौतघृताभ्यङ्गो मेषीदुग्धावसेचनम् ॥ यवषष्टीकनीवारकलमारुणशालयः । गोधूमाश्चणका मुद्गास्तुवर्य्योऽपि मुकुष्टकाः ॥ अजानां महिषीणाञ्च गवामपि पयांसि च । लावतित्तिरिसर्पद्विट्ताम्रचूडादिविष्किराः ॥ प्रतुदाः शुकदात्यूहकपोतकटकादयः । उपोदिकाकाकमाची वेत्राग्रं सुनिषण्णकम् ॥ वास्तुकं कारवेल्लञ्च तण्डुलीयः प्रसारणी । पत्तूरो वृद्धकुष्माण्डं सर्पिः शम्पाकपल्लवम् ॥ पटोलं रुवुतैलञ्च मृद्वीकाश्वेतशर्करा । नवनीतं सोमवल्ली कस्तूरी सितचन्दनम् ॥ शिंशपागुरुदेवाह्वसरलं स्नेहमर्द्दनम् । तिक्तञ्च पञ्चमुद्दिष्टं वातरक्तगदे नृणाम् ॥ दिवास्वप्नाग्निसन्तापव्यायामातपमैथुनम् । माषाः कुलत्था निष्पावाः कलायाः क्षारसेवनम् ॥ अम्बुजानूपमांसानि विरुद्धानि दधीनि च । इक्षवो मूलकं मद्यं पिण्याकोऽम्लानि काञ्जिकम् ॥ कटुञ्च गुर्व्वभिष्यन्दि लवणानि च शक्तवः । इत्यपथ्यं निगदितं वातरक्तगदे नृणाम् ॥” इति वैद्यकपथ्यापथ्यविधिग्रन्थे वातरक्ताधि- कारः ॥)