वाचस्पत्यम्
वातल || पु० वातं रोगभेदं लाति ला—क । १ चणके शब्दच० । २ वायुकारके द्रव्ये त्रि० ।
शब्दकल्पद्रुमः
वातलः || पुं, (वातं लातीति । ला + कः ।)
चणकः । इति शब्दचन्द्रिका ॥ वायुकारके त्रि ॥ (यथा, सुश्रुते सूत्रस्थाने ४६ अः । “वातलाः शीतमधुराः सकषाया विरुक्षणाः । कफशोणितपित्तघ्नाश्चणकाः पुंस्त्वनाशनाः ॥”)