शब्दकल्पद्रुमः
वातसहः || त्रि (वातं वातजनितरोगं सहते । सह + अच् ।)
अत्यन्तवायुयुक्तः । यथा, —
“वातासहो वातसहो वातूलो वातुलोऽपि च ।” इति शब्दरत्नावली ॥ (वायुवेगसहनशीलः । यथा, महाभारते । १ । १४२ । ५ ॥ “ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम् । ऊर्म्मिक्षमां दृढां कृत्वा कुन्तीमिदमुवाच च ॥”)