वाचस्पत्यम्
वाताण्ड || पु० मुकरोगविशेषे तस्य लक्षणं यथा “वृषणौ दूषयेद्वायुः श्लेष्मणा यस्य लंवृतः तस्य मुष्कश्चलत्येको रोगो वाताण्डसंज्ञकः” माधवकरः ।
शब्दकल्पद्रुमः
वाताण्डः || पुं, (वातदूषितौ अण्डौ यस्मात् ।)
मुष्करोगविशेषः । तस्य लक्षणं यथा, —
“वृषणौ दूषयेद्वायुः श्लेष्मणा यस्य संवृतः । तस्य मुष्कश्चलत्येको रोगो वाताण्डसंज्ञकः ॥” इति माधवकरः ॥