संस्कृत-शब्दकोशः

वाताण्ड वातापि

वाताद

वाचस्पत्यम्

वाताद ||‍ पु० वाताय वातनिवृत्तयेऽद्यतेऽसौ अद—घञ् । (वा- दाम) फलप्रधानवृक्षे भावप्र० ।


शब्दकल्पद्रुमः

वातादः || पुं, (वाताय वातनिवृत्तये अद्यते इति । अद् + घञ् ।)
फलवृक्षविशेषः । वादाम इति ख्यातः । तत्पर्य्यायः । वातवैरी २ नेत्रोपम- फलः ३ वाताम्रः ४ । अस्य गुणाः । उष्णत्वम् । सुस्निग्धत्वम् । वातघ्नत्वम् । शुक्रकारित्वम् । गुरुत्वञ्च । अस्य मज्जगुणाः । मधुरत्वम् । वृष्यत्वम् । पित्तानिलापहत्वम् । स्निग्धत्वम् । उष्णत्वम् । कफकारित्वम् । रक्तपित्तविकारिणां श्रेष्ठत्वञ्च । इति भावप्रकाशः ॥



Correction: