संस्कृत-शब्दकोशः

वाताद वातापिद्विष्

वातापि

वाचस्पत्यम्

वातापि ||‍ पु० अगस्त्यनाशिते इल्वभातरि असुरभेदे । “आतापिर्भ- क्षितो येनवातापिश्च महायलः । समुद्रः शोषितो वन स मेऽनस्त्यः प्रसीदतु इति भोजनान्ते पाठ्यमन्त्रः ।


शब्दकल्पद्रुमः

वातापिः || पुं, असुरविशेषः । स च ह्रादस्य धमनौ पत्न्यां जातः । अगस्त्येन भक्षितः । इति श्रीभागवतमतम् ॥ कल्पान्तरे तु विप्रचित्तेः सिंहिकायां जातः । यथा, —
“सिंहिकायामथोत्पन्ना विप्रवित्तेश्चतुर्द्दश । शंवः शवलगात्रश्च व्यङ्गः शाल्वस्तथैव च ॥ इल्वलो नमुचिश्चैव वातापी हसृपो जिकः । हरकल्पः कालनाभो भौमश्च नरकस्तथा ॥ राहुर्ज्येष्ठश्च तेषां वै चन्द्रसूर्य्यप्रमर्द्दनः । इत्येते सिंहिकापुत्त्रा देवैरपि दुरासदाः ॥” इति वह्निपुराणे काश्यपीयवंशः ॥ अन्यच्च । “विप्रचित्तिः सैंहिकेयान् सिंहिकायामजी- जनत् । हिरण्यकशिपोर्ये वै भागिनेयास्त्रयोदश ॥ वत्सः शल्यश्च राजेन्द्रो तमो वातापिरेव च । इल्वलो नमुचिश्चैव खसूमश्चाञ्जनस्तथा ॥ नरकः कालनाभश्च सरमाणस्तथैव च । कल्पवीर्य्यश्च विख्यातो दनुवंशविवर्द्धनः ॥” इति मात्स्ये ६ अध्यायः ॥ (मुनिवरोऽगस्त्यस्तु एनं ब्रह्मद्वेष्टारं भक्षित- वान् । एतद्वृत्तान्तस्तु महाभारते वनपर्व्वणि ९६ अध्यायमारभ्य द्रष्टव्यः ॥)



Correction: