वाचस्पत्यम्
वातारि || पु० वातस्य रोगमेदस्यारिः । १ एरण्डवृक्षे २ शत मूल्यां ३ शेफालिकायां ४ यवान्न्यां ५ भार्ग्यां ६ स्नुह्यां ७ विडङ्गे ८ शूरण ९ भल्लातके १० मतकालां ११ पुत्र- दात्रीवृक्षे च राजनि ।
शब्दकल्पद्रुमः
वातारिः || पुं, (वातस्य वातरोगस्य अरिः ।)
एरण्डवृक्षः । इति शब्दरत्नावली ॥ (अस्य पर्य्यायो यथा, —
“शुक्लएरण्ड आमण्डुश्चित्रोगन्धर्व्वहस्तकः । पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डोऽप्यदण्डकः ॥ वातारिस्तरुणश्चापि रुबूकश्च निगद्यते । १ । रक्तोऽपरो रुवूकः स्यादुरुवूको रुवूस्तथा । व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपत्रकः ॥ २ ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शतमूली । इति शब्दचन्द्रिका ॥ पुत्त्रदात्री । शेफालिका । यवानी । भार्गी । स्नुही । विडङ्गः । शूरणः । भल्लातकः । जतुका । इति राजनिर्घण्टः ॥