वाचस्पत्यम्
वाताश्व || पु० वात इव शीघ्रगोऽश्चः । आजानेये उत्तम हये त्रिका० ।
शब्दकल्पद्रुमः
वाताश्वः || पुं, (वात इव शीघ्रगीऽश्वः ।)
कुली- नाश्वः । तत्पर्य्यायः । हयोत्तमः २ जात्यः ३ अजानेयः ४ । इति त्रिकाण्डशेषः ॥ (यथा, कथासरित्सागरे । ६६ । १७४ । “तदिमं मां विजानीहि लक्ष्मीसेनं वरानने । आनीतमिह वाताश्वेनाकृष्याखेटनिर्गतम् ॥”)