वाचस्पत्यम्
वाति || पु० वा—क्तिच् । १ वायौ २ सूर्य्ये ३ चन्द्रे च रभसः ।
शब्दकल्पद्रुमः
वातिः || पुं, (वाति गच्छतीति । वा + “वातेर्नित् ।)
उणा० ५ । ६ । इति अतिः ।)
वायुः । यथा, “वातिर्वायुर्मरुद्वातः श्वसनः पवनोऽनिलः ।” इत्यमरटीकायां भरतधृतसाहसाङ्कः ॥ सूर्य्यः । चन्द्रः । यथा । वातिरादित्यसोमयोः । इति रभसः ॥