वाचस्पत्यम्
वातुल || पु० वातानां सभूहः उलच् । वातसमूहे भरतः ।
शब्दकल्पद्रुमः
वातुलः || त्रि वातविकारासहः । उन्मत्तः । इत्य- मरटीकायां भरतः ॥
वातुलः || पुं, वात्या । इत्यमरटीकायां भरतः ॥