वाचस्पत्यम्
वातोना || स्त्री वातमूनयति ऊन—अण् । १ गोजिह्वाक्षुपे राजनि० वातेनोनः । २ वायुहीन त्रि० ।
शब्दकल्पद्रुमः
वातोना || स्त्री (वातमूनयतीति । ऊन + अण् ।) गोजिह्वाक्षुपः । इति राजनिर्घण्टः ॥ वायु- हीने, त्रि ॥