वाचस्पत्यम्
वात्स्यायन || पु० वत्सस्य गोत्रापत्यं युवा वत्स + यञ् ततो यूनि फल । १ युनि वत्सगोत्रापत्ये । २ न्यायसूत्रभाष्यकारके पक्षिक्षाख्ये मुनौ पं त्रिका० ।
शब्दकल्पद्रुमः
वात्स्यायनः || पुं, (वत्सस्य गोत्रापत्यं युवा । वत्स + यञ् । ततो यूनि फक् ।)
मुनिविशेषः । तत्प- र्य्यायः । मन्दनागः २ पक्षिलः ३ स्वामी ४ । इति त्रिकाण्डशेषः ॥ (अयं हि कामसूत्रकर्त्ता । यथा, कुट्टनीमते । ७७ । “वात्सायनमयमवुधं बाह्यान्दूरेण दत्तकाचार्य्यान् । गणयति मन्मथतन्त्रे पशुतुल्यं राजपुत्त्रञ्च ॥”)