वाचस्पत्यम्
वादरा || स्त्री वातं वायुं राति ददाति रा—क पृषो० तस्य दः कापांस्याम् शब्दर० ।
शब्दकल्पद्रुमः
वा(बा)दरा || स्त्री (वदरवत् फलमस्त्यस्याः । वदर + अच् । ततः टाप् ।)
कार्पासवृक्षः । तत्पर्य्यायः । कार्पासी २ सूत्रपुष्पा ३ वदरी ४ समुद्रान्ता ५ तुण्डिकेरी ६ कार्पासिका ७ । इति शब्द- रत्नावली ॥ अस्याः पर्य्यायान्तरं गुणाश्च कार्पासीशब्दे द्रष्टव्याः ॥