संस्कृत-शब्दकोशः

वाद्य वाध

वाद्यभाण्ड

वाचस्पत्यम्

वाद्यभाण्ड ||‍ न० कम० । वादनीयपात्रे ।


शब्दकल्पद्रुमः

वाद्यभाण्डं || क्ली (वाद्यं वादनीयं भाण्डमिति ।)
वादनीयपात्रम् । मुरजादि । यथा, —
“पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले ।” इत्यमरश्लोकटीकायां भरतः ॥ अपि च । “वाद्यभाण्डमिदं देवि ! नानास्वरसमन्वितम् । भेरीपटहसंयुक्तं मया भक्त्या निवेदितम् ॥” इति बृहन्नन्दिकेश्वरपुराणोक्तदुर्गोत्सवपद्धतिः ॥



Correction: