संस्कृत-शब्दकोशः

वाद्यभाण्ड वाधक

वाध

वाचस्पत्यम्

वा(बा)ध ||‍ पु० वा(वा)ध—घञ् । १ प्रतिरोधे २ प्रतिबन्धे न्या- योक्ते स्वाभावबत्त्वेन ज्ञाने ४ हेत्वाभासभेदे । भावे अ । वा(बा)धाप्यत्र २ पीडायाञ्च स्त्री अमरः ल्युट् । वा- (बा)धनमप्यत्रार्थे न० शब्दच० ।


वाचस्पत्यम्

वा(बा)ध ||‍ विघाते भ्वा० आत्म० सक० सेट् । वा(बा)धते आवा- (बा)पिष्ट । चङि न ह्रस्वः ।


शब्दकल्पद्रुमः

वाध is an alternate of बाध. बा(वा)ध || ऋ ङ विहतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।)
ऋ, अवबाधत् । ङ, बाधते । ऊनं न सत्त्वेष्वधिको बबाधे । इति रघुः ॥ २ । १४ ॥ इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वाधः is an alternate of बाधः. बा(वा)धः || पुं, (बाधनमिति । बाध + भावे घञ् ।)
प्रतिबन्धकः । व्याघातः । (यथा, ऋग्वेदे । ६ । ५१ । ४ । “यदीमर्भे महति वा हितासो बाधे मरुतो- अह्वाम देवान् ॥”)
न्यायमते साध्याभाववत्पक्षः । यथा । ह्रदो वह्निमान् । इति सामान्यनिरुक्ति- गादाधरी ॥


शब्दकल्पद्रुमः

वाध || ऋ ङ विहतौ । इति कविकल्पद्रुमः । ऋ, अववाधत् । ङ, वाधते । इति दुर्गादासः ॥



Correction: