शब्दकल्पद्रुमः
वाधकः is an alternate of बाधकः. बा(वा)धकः || पुं, (बा(वा)धते इति । बाध + ण्वुल् ।)
स्त्रीरोगविशेषः । यथा, —
“रक्तमाद्री तथा षष्ठी चाङ्कुरो जलकुमारकः । चतुर्विधो बाधकः स्यात् स्त्रीणां मुनिविभाषितः ॥ तेषां स्वभावं वक्ष्यामि यथाशास्त्रं विधानतः । एतेषां पूजनं कार्य्यं जनैः सन्तानकाङ्क्षिभिः ॥ निःसारणं स्थापनञ्च बलिदानं जपस्तथा । कर्त्तव्यो गुरुवाक्येन यथाशास्त्रं विचक्षणैः ॥ चतुर्विधो बाधकस्तु जायते ऋतुकालतः ॥” तस्य लक्षणं यथा, —
“व्यथा कट्यां तथा नाभेरधः पार्श्वे स्तनेऽपि च । रक्तमाद्रीप्रदोषेण जायते फलहीनता ॥ मासमेकं द्बयं वापि ऋतुयोगो भवेद्यदि । रक्तमाद्रीप्रदोषेण फलहीना तदा भवेत् ॥” इति रक्तमाद्र्याः ॥ “नेत्रे हस्ते भवेज्ज्वाला योनौ चैव विशेषतः । लालासंयुतरक्तञ्च षष्ठीबाधकयोगतः ॥ मासैकेन भवेद्यस्या ऋतुस्नानद्बयं तथा । मलिना रक्तयोनिः स्यात् षष्ठीबाधकयोगतः ॥” इति षष्ठ्याः ॥ “उद्बेगो गुरुता देहे रक्तस्रावो भवेद्बहु । नाभेरधो भवेत् शूलं चाङ्कुरः स तु बाधकः ॥ ऋतुहीना चतुर्म्मासं त्रिमासं वा भवेद्यदि । कृशाङ्गी करपादे च ज्वाला चाङ्कुरयोगतः ॥” इति चाङ्कुरस्य ॥ “सशूला च सगर्भा च शुष्कदेहाल्परक्तिका । जलकुमारस्य दोषेण जायते फलहीनता ॥ या कृशाङ्गी भवेत् स्थूला बहुकालऋतुस्तथा । गुरुस्तनी स्वल्परक्ता जलकुमारस्य दूषणात् ॥” इति जलकुमारस्य ॥ इति वैद्यकम् ॥ बाधाजनके, त्रि ॥ (यथा, मार्कण्डेये । ३४ । १६ । “घर्म्मो धर्म्मानुबन्धार्थो धर्म्मो नात्मार्थ- बाधकः ॥”)