वाचस्पत्यम्
वानरी || स्त्री वानरस्य प्रियम् भक्ष्यत्वात् अण् ङीप् । १ शूक- शिम्ब्याम् शब्दर० । वानर + स्त्रियां ङीष् । २ वामर- योषिति ।
शब्दकल्पद्रुमः
वानरी || स्त्री (वानरस्य स्त्री । ङीष् ।)
मर्कटी । (यथा, कथासरित्सागरे । १२३ । ६२ । “अथावतीर्य्य वृक्षात् तौ वानरो वानरीच सा । अवतीर्णस्य मे पादावगृह्णीतावुभावपि ॥”)
शूकशिम्बी । इति शब्दरत्नावली ॥ (वानर- स्येयमिति । वानर + अण् + ङीष् । वानर- सम्बन्धिनी । यथा, महानाटके । “सुग्रीवे करुणा न सा हि करुणा लभ्या धरा वानरी । मय्येषा करुणा तवैव भविता नो वा भवेत् कुत्रचित् ॥”)