संस्कृत-शब्दकोशः

वानल वाना

वानस्पत्य

वाचस्पत्यम्

वानस्पत्य ||‍ पु० वनस्पतेरयम् प्रतिरूपः पुष्पाज्जातफलत्वात् । पुष्पजातफलके आम्रादौ वृक्षे अमरः ।


शब्दकल्पद्रुमः

वानस्पत्यः || पुं, (वनस्पतौ भवः । वनस्पति + “दित्यदित्यादित्येति ।” ४ । १ । ८५ । ण्यः ।)
पुष्पजातफलवृक्षः । स तु आम्रजम्ब्वादिः । इत्यमरः ॥ (वनस्पतीनां समूहः । “दित्य- दित्येति ।” ण्यः । वनस्पतिसमूहे, क्ली । इति काशिका ॥ वनस्पतिजाते, त्रि । यथा, वाज- सनेयसंहितायाम् । १ । १४ । “अद्रिरसि वानस्पत्यः ।” “हे उदूखल त्वं यद्यपि वानस्पत्यः दारुमय- स्तथापि दृढत्वात् अद्रिरसि ।” इति तद्भाष्ये महीधरः ॥ यथाच, महाभारते । ३ । १२१ । ४ । “तस्य सप्तसु यज्ञेषु सर्व्वमासीद्धिरन्मयम् । वानस्पत्यञ्च भौमञ्च यद्द्रव्यं नियतं मखे । चषालयूपचमसाः स्थाल्यः पात्र्यः स्रुचः स्रुवाः ॥”)



Correction: