शब्दकल्पद्रुमः
वान्तिः || स्त्री (वम् + क्तिन् ।) वमनम् । वाँति इति भाषा । यथा, — “वान्तिरुल्लेखनं छर्द्दिर्वमनं वमथुर्व्वमिः ॥” इति रत्नमाला ॥