संस्कृत-शब्दकोशः

वान्या वापक

वाप

वाचस्पत्यम्

वाप ||‍ पु० वप—घञ् । १ तनवादेर्वीजादेश्च २ वपने ३ मुण्डने च ।


शब्दकल्पद्रुमः

वापः || पुं, वपनम् । वपधातोर्घञ्प्रत्ययेन निष्पन्नः ॥ (यथा, महाभारते । ३ । ३४ । १९ । “कालं प्रतीक्षष्व सुखोदयस्य पङ्क्तिं फलानामिव बीजवापः ॥” मुण्डनम् । यथा, मनौ । ११ । १०९ । “उपपातकसंयुक्तो गोघ्नो मांसं यवान् पिबेत् । कृतवापो वसेद्गोष्ठे चर्म्मणा तेन संवृतः ॥” उप्यते अस्मिन्निति । वप् + अधिकरणे घञ् । क्षेत्रं इति । ५ । १ । ४५ । पाणिनीयसूत्रे भट्टोजि- दीक्षितः ॥ तन्त्वादेर्वयनं वापदण्डादिदर्शनात् ॥)



Correction: