वापक
वापि
वापदण्ड
वाचस्पत्यम्
वापदण्ड || पु० उप्यतेऽयेन वप—करणे घञ् कर्म० । वेमनि तन्तुवपनदण्डे अमरः ।
शब्दकल्पद्रुमः
वापदण्डः || पुं, (वापाय वपनाय दण्डः ।)
वप- नार्थदण्डः । वेँयु इति भाषा । तत्पर्य्यायः । वेमा २ । इत्यमरः ॥ वेम ३ वेमः ४ वायदण्डः ५ । इति भरतः ॥