वाचस्पत्यम्
वापी is an alternate of वापि. वापि(पी) || स्त्री वप—इञ् वा ङीप् । “द्रोणात् दशगुणा षापी” इत्युक्तलक्षणे १ जलाशयभेदे जलाशयशब्दे दृश्यम् २ जनाशयमःत्रे च “वापीं स्नातुभितो गतासि” इति काव्यप्र० । “यो वापीमथ वा कूपं देशे वारिविवर्जिते । खानयेत् स दिवं याति विन्दो विन्दौ शतं समाः” कल्प तरौ वायुपु० तज्जलगुणाः “वाप्यं गुरु कदुक्षारं पित्तल कफवातजित्” राजवल्लभ । “वापीकूपतडागं वा पासादं वा निकेतनम् । न कुर्य्याद्वृद्धिकामस्तु अनला- निलनैरृते । आग्नेय्यां मनसस्तापो नैरृते क्रूरकर्म कृत् । वायव्यां बलवित्तञ्च पीयमाने जले प्रिवे! । स्थानस्य पःपके भागे वापीकूपतडानकम् । अग्निदाह सदा कुर्याव समानुषचतुष्पदाम् । नैरृते पीयमा- नन्तु आत्मना दुःखितो भवेत् । कन्यापि तज्जलं पीत्वा पतिं गृह्णाति कामतः” देवीपु० ।
शब्दकल्पद्रुमः
वापी || स्त्री (वापि + कृदिकारादिति ङीष् ।)
दीघिका । इत्यमरः । १ । १० । २८ ॥ उप्यते पद्मादिकं अस्याम् । वाप्यां वापिरपि स्मृता । इति द्विरूपकोषः ॥ इति तट्टीकायां भरतः ॥ * ॥
तस्या लक्षणं यथा । नव्यवर्द्धमानधृतो वशिष्ठः । शतेन धनुर्भिः पुष्करिणी । त्रिभिः शतै- र्दीर्घिका । चतुर्भिर्द्रोणः । पञ्चभिस्तडागः । द्रोणाद्दशगुणा वापी । तेन चतुर्द्दिक्षु पञ्चत्रिंश- द्धस्तान्यूनतायां द्वादशशतहस्तान्तरान्यूनत्वेन दीर्घिका । चतुर्द्दिक्षु चत्वारिंशद्धस्तान्यूनतायां षोडशशतहस्तान्तरान्यूनत्वेन द्रोणः । चतु- र्द्दिक्षु त्रिंशदधिकशतहस्तान्यूनतायां षोडश- सहस्रहस्तान्तरान्यूनत्वेन वापी । इति जला- शयोत्सर्गतत्त्वम् ॥ * ॥
तत्खननफलं यथा, —
“यो वापीमथवा कूपं देशे वारिविवर्ज्जिते । खानयेत् स दिवं याति बिन्दौ बिन्दौ शतं समाः ॥” इति कल्पतरौ वायुपुराणम् ॥ तज्जलगुणाः । “याप्यं गुरु कटु क्षारं पित्तलं कफवातजित् ।” इति राजवल्लभः ॥ तत्खनने दिङ्निषेधो यथा, —
“वापीकूपतडागं वा प्रासादं वा निकेतनम् । न कुर्य्याद्वृद्धिकामस्तु अनलानिलनैरृते ॥ आग्नेय्यां मनसस्तापो नैरृते क्रूरकर्म्मकृत् । वायव्यां बलवित्तञ्च पीयमाने जले प्रिये ॥ स्थानस्य पावके भागे वापीकूपतडागकम् । अग्निदाहं सदा कुर्य्यात् समानुषचतुष्पदाम् ॥ नैरृते पीयमानन्तु आत्मना दुःखितो भवेत् । कन्यापि तज्जलं पीत्वा पतिं गृह्णाति कामतः ॥ इति देवीपुराणे नन्दाकुण्डप्रवेशाध्यायः ॥ तत्करणफलं यथा, — शर्म्मिल उवाच । “तडागोदकवापीनां कृतानामिह यत् फलम् । विशेषेण पितृश्रेष्ठ वक्तुमर्हस्यशेषतः ॥ यम उवाच । धर्म्मस्यार्थस्य कामस्य यशसश्च द्बिजोत्तम । तडागं सुप्रभूताम्बु परमायतनं स्मृतम् ॥ देवताः पितरो नागा गन्धर्व्वा यक्षराक्षसाः । पशुपक्षिमनुष्याश्च संश्रयन्ति जलाशयम् ॥ कृत्स्नं तारयते वंशं पश्य खाते जलाशये । गावः पिबन्ति पानीयं मनुष्याः पशवस्तथा ॥ शरदृतौ तडागेषु सलिलं यस्य तिष्ठति । अग्निष्टोमफलं तस्य प्रवदन्ति मनीषिणः ॥ येषां शिशिरकाले तु पानीयं प्रतितिष्ठति । वाजपेयातिसत्राभ्यां फलं बिन्दन्ति मानवाः ॥ वसन्ते चैव ग्रीष्मे तु सलिलं यस्य तिष्ठति । राजसूयाश्वमेधाभ्यां स फलं समुपाश्नुते ॥ तडागं सर्व्वसत्त्वानां जीवनन्तु दिवानिशम् । तस्मात् सर्व्वात्मना वत्स तडागमिह कार- येत् ॥ कृत्स्नं हि तारयेद्बंशं पुरुषस्य न संशयः । सावतारः कृतः कूपः सम्प्रभूतजलस्तथा ॥ यस्य स्वादुजलं कूपे पिबन्ति सततं जनाः । स नरो विरजो लोके देववद्दिवि मोदते ॥ पीत्वैवेक्षुरसं क्षीरं दधि मधु सुरासवम् । तावत् पिपासा नापैति यावत्तोयं न पीयते ॥ जीवन्ति चान्नरहिता दिवसानि बहून्यपि । तृषितस्तोयरहितो दिनमेकं न जीवति ॥ तस्माद्ददाति यो नित्यं पानीयं प्राणिनामिह । स ददाति नरः प्राणान् माभूत्ते ह्यत्र संशयः ॥ प्राणदानात् परं नाम नान्यद्दानं हि विद्यते । तस्माद्वापीश्च कूपांश्च तडागानि च कार- येत् ॥ सवृक्षाणि ह विप्रर्षे यदीच्छेत् श्रियमात्मनः । शुष्कं परनिपानन्तु यः कारयति शक्तितः । सन्तारयति भूयोऽपि द्विगुणं तस्य वै फलम् ॥” इति वह्निपुराणे तडागवृक्षप्रशंसानामाध्यायः ॥