संस्कृत-शब्दकोशः

वापीह वाम

वाप्य

वाचस्पत्यम्

वाप्य ||‍ न० वाप्यां भाः यत् । १ कुष्ठौषधे अमरः । २ वापीमव वप—ण्यत् । ३ वपनीये च त्रि० ।


शब्दकल्पद्रुमः

वाप्यं || क्ली (वाप्यां भवमिति । वापी + “दिगा- दिभ्यो यत् ।” ४ । ३ । ५४ । इति यत् ।)
कुष्ठौ- षधम् । इत्यमरः । १ । ४ । १२६ ॥ वापीभवे, त्रि ॥ (यथा, सुश्रुते सूत्रस्थाने ४५ अध्याये । “ताडागं वातलं स्वादु कषायं कटुपाकि च । वातश्लैष्महरं वाप्यं सक्षारं कटुपित्तलम् ॥” वप् + ण्यत् ।)
वपनीये च, त्रि ॥



Correction: