वाचस्पत्यम्
वामलूर || पु० वाम लुनाति लू—रक् । वलमीके अमरः ।
शब्दकल्पद्रुमः
वामलूरः || पुं, (वामं यथा तथा लुनातीति । लू + बाहुलकात् रक् ।)
वल्मीकः । इत्यमरः । २ । १ । १४ ॥ (यथा, काशीखण्डे । २२ । १९ । “जटाटवीकोटरान्तःकृतनीडाण्डजाश्च ये । प्ररूढवामलूराङ्गाः स्नायुनद्धास्थिसञ्चयाः ॥”)