शब्दकल्पद्रुमः
वामनेत्रं || क्ली (वर्णन्यासे वामं नेत्रं स्पृश्यं येन ।)
दीर्घेकारः । यथा, —
“ईस्त्रिमूर्त्तिर्म्महामाया लोलाक्षी वामलोच- नम् ।” इत्यादि वर्णाभिधानम् ॥ अपि च । “ईशो वैश्वानरस्थः शशधरविलसद्बामनेत्रेण युक्तो बीजन्ते द्वन्द्वमन्यद्विगलितचिकुरे कालिके ये जपन्ति ।” इति तन्त्रसारे महाकालविरचितं श्यामा- स्तोत्रम् ॥ (वामचक्षुश्च ॥)