शब्दकल्पद्रुमः
वामा || स्त्री (वमति सौन्दर्य्यं इति । वम + ज्वला- दित्वात् अण् । टाप् । यद्वा, वमति प्रतिकूल- मेवार्थं कथयति । यद्वा, वामः कामोऽस्त्यस्या इति अर्श आदिभ्योऽच् इत्यच् ।)
सामान्या स्त्री । इत्यमरः । २ । ६ । २ ॥ (यथा, गीत- गोविन्दे । १ । ४६ । “श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति वामाम् । पश्यति सस्मितचारुपरामपरामनुगछति रामाम् ॥”)
दुर्गा । यथा, —
“वामं विरुद्धरूपन्तु विपरीतन्तु गीतये । वामेन सुखदा देवी वामा तेन मता बुधैः ॥” इति देवीपुराणे ४५ अध्यायः ॥ अपि च । “बालान्तु बाल्यदाक्षिण्यभावाभ्यामपि पूजयेत् । श्मशानभेरवीं देवीमुग्रतारां तथैव च ॥ उच्छिष्टभैरवीं चण्डीं तारां त्रिपुरभैरवीम् । एतास्तु वामभावेन यजेत्त्रिपुरभैरवीम् ॥ सर्व्वत्र पितृदेवादौ यस्माद्भवति दक्षिणः । देवी च दक्षिणा यस्मात्तस्मात् दाक्षिण्यमुच्यते ॥ या पुनः पूज्यमाना तु देवादीनान्तु पुर्ब्बतः । यज्ञभागं स्वयं धत्ते सा वामा तु प्रकीर्त्तिता ॥” इति कालिकापुराणे ७७ अध्यायः ॥