शब्दकल्पद्रुमः
वामिका || स्त्री (वामा + स्वार्थे कन् । टापि अत इत्वम् ।)
चण्डिका । यथा, —
“बह्व्यस्तु चण्डिका देव्या वामिका मूर्त्तयः स्मृताः । लक्ष्म्यास्तु वामिका मूर्त्तिरुक्ता दहनभैरवी ॥ नाग्निदाहं पुरग्राममन्दिरेषु करोत्यलम् । अपूजिता महालक्ष्मीर्देहल्यां तास्तु पूजयेत् ॥ वाग्भैरवी सरस्वत्या वामिका मूर्त्तिरीरिता । तस्या मन्त्रं पुरा प्रोक्तं शुक्लवर्णा तु सा स्मृता ॥” इति कालिकापुराणे ७७ अध्यायः ॥