वाचस्पत्यम्
वामी || स्त्री वाम—गौरा० ङीष् । १ अश्व्याम् “अथोष्ट्रवामी- शतवाहितार्थः” रघुः । २ शृगाल्यां ३ रासभ्यां ४ करभ्याञ्च मेदि० ।
शब्दकल्पद्रुमः
वामी || स्त्री शृगाली । बडवा । (यथा, रघौ । ५ । ३२ । “अथोष्ट्रवामीशतवाहितार्थं प्रजेश्वरं प्रीतमना महर्षिः ॥”)
रासभी । करभी । इति मेदिनी । मे, ३० ॥