संस्कृत-शब्दकोशः

वायन वायव्य

वायवी

वाचस्पत्यम्

वायवी ||‍ स्त्री वायोरियं ण्य स्त्रियां ङीप् यलोपः । १ वायु- सम्बन्धिन्थां स्त्रियां २ तच्छक्तौ ३ उत्तरपश्चिमायां दिशि च जटा० ।


शब्दकल्पद्रुमः

वायवी || स्त्री (वायोरियमिति । वायु + अण् । ङीप् ।)
उत्तरपश्चिमदिक् । इति जटाधरः ॥ (कार्त्तिकेयस्यानुचरमातृगणभेदः । यथा, महा- भारते । ९ । ४६ । ३७ । “वायव्यश्चाथ कौमार्य्यो ब्राह्म्यश्च भरतर्षभ ! । वैष्णव्यश्च तथा सौर्य्यो वाराह्यश्च महाबलाः ॥”)



Correction: