वाचस्पत्यम्
वायव्य || त्रि० वायुर्देवताऽस्य वाय् + ण्य । १ वायुदेवताके पश्वादा “वायव्यं श्वेतगालभेत” श्रुतिः । २ वायुसम्बन्धिनि च
शब्दकल्पद्रुमः
वायव्यं || त्रि (वायुर्देवतास्येति । वायु + “वाय्वृतु- पित्रुषसो यत् ।” ४ । २ । ३१ । इति यत् ।)
वायुसम्बन्धिदिगादि । यथा । विल्वयुग्ममुपक्रम्य गवाक्षतन्त्रे । “वायव्यस्थं नैरृतस्थं न गृह्णीयात् कदाचन ॥” इति तिथ्यादितत्त्वम् ॥ (वायुदेवताकपशुहविरादि । यथा, ऋग्वेदे । १० । ९० । ८ । “तस्माद्यज्ञात् सर्व्वहुतः सम्भृतं पृषदाज्यम् । पशून्ताँश्चक्रे वायव्यानारण्यान् ग्रामाश्च ये ॥” “वायव्यान् वायुदेवताकान् ।” इति तद्भाष्ये सायणः ॥ * ॥
क्ली, षट्शताधिकचतुर्विंशति- सहस्रश्लोकात्मकवायुनामकमहापुराणम् । यथा, देवीभागवते । १ । ३ । ७ । “अयुतं वामनाख्यञ्च वायव्यं षट्शतानि च । चतुर्विंशतिः संख्यातः सहस्राणि तु शौनक ! ॥” अस्त्रविशेषः । यथा, महाभारते । १ । १३६ । १९ । “आग्नेयेनासृजद्वह्निं वारुणेनासृजत् पयः । वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ॥”)