संस्कृत-शब्दकोशः

वायव्य वायसविद्यिक

वायस

वाचस्पत्यम्

वायस ||‍ त्रि० वय एव अण् । १ काके वायं वपनं स्यति सो—ग्र । २ अगुभवृक्षे ३ श्रीवासे च मेदि० ।


शब्दकल्पद्रुमः

वायसः || पुं, (वयते इति । वय गतौ । “वयश्च ।” उणा० ३ । १२० । इति असच् । सच णित् ।)
अगुरुवृक्षः । श्रीवासः । काकः । इति मेदिनी । से, ३८ ॥ (यथा, महाभारते । ३ । २७० । ३१ । “श्वगृघ्रकङ्ककाकोलभासगोमायुवायसाः । अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः ॥”)
अस्योत्पत्तिर्यथा, —
“अरुणस्य भार्य्या श्येनी वीर्य्यवन्तौ महा- बलौ । सम्पातिश्च जटायुश्च प्रभूतौ पक्षिसत्तमौ । सम्पातिर्जनयन् गृध्रान् काकाः पुत्त्रा जटायुषः ॥” इति वह्निपुराणे वाराहप्रादुर्भावः ॥ * ॥
अस्य एकाक्षिनाशकारणं यथा, — मार्कण्डेय उवाच । “गते तु भरते तस्मिन् रामः कमललोचनः । लक्ष्मणेन सह भ्रात्रा भार्य्यया सीतया सह । शाकमूलफलाहारो विचचार महावने ॥ एकदा लक्ष्मणमृते रामदेवः प्रतापवान् । चित्रकूटे वने देशे वैदेह्या सङ्गमाश्रितः ॥ सुष्वाप सुमुहूर्त्तञ्च ततः काको दुरात्मवान् । सीताभिमुखमभ्येत्य विददार स्तनान्तरम् । विदार्य्य वृक्षमारुह्य स्थितोऽसौ वायसाधमः ॥ ततः प्रबुद्धो रामोऽसौ दृष्ट्वा रक्तं स्तनान्तरम् । शोकाविष्टान्तु सीतां तामुवाच कमलेक्षणः ॥ किमिदं स्तनान्तरे भद्रे तव रक्तस्य कारणम् । इत्युक्ता सा च तं प्राह भर्त्तारं विनयान्विता ॥ पश्य राजेन्द्र वृक्षाग्रे वायसं दुष्टचेष्टितम् । येनैतच्च कृतं कर्म्म सुप्ते त्वयि महामते ॥ रामोऽपि दृष्ट्वा तं काकं तस्मिन् क्रोधमथा- करोत् । ऐषिकास्त्रं समादाय ब्रह्मास्त्रेणाभिमन्त्रितम् ॥ काकमुद्दिश्य चिक्षेप सोऽवधावद्भयान्वितः ॥ स त्विन्द्रस्य सुतो राजन् इन्द्रलोकं विवेश ह । रामास्त्रं प्रज्वलं दीप्तं तस्यानुप्रविवेश वै ॥ विदितार्थश्च देवेन्द्रो देवैः सर्व्वैः समन्वितः । निष्क्रामयच्च तं दुष्टं राघवस्यापकारिणम् ॥ ततोऽसौ सर्व्वदेवैस्तु देवलोकाद्बहिष्कृतः । पुनः सोऽभ्येत्य रामञ्च राजानं शरणं गतः ॥ त्राहि राम महाबाहो अज्ञानादपकारि- णम् । इति ब्रुवन्तं स प्राह रामः कमललोचनः ॥ अमोघाय ममास्त्राय अक्षि एकं प्रयच्छ मे । ततो जीवसि दुष्टात्मन् मेऽपराधो महान् कृतः ॥ इत्युक्तोऽसौ स्वकं नेत्रमेकमस्त्राय दत्तवान् । अस्त्रञ्च नेत्रमेकन्तु भस्मीकृत्य शमं ययौ ॥ ततः प्रभृति सर्व्वेषां काकानामेकनेत्रता । चक्षुषैकेन पश्यन्ति हेतुनानेन पार्थिव ! ॥” इति नरसिंहपुराणे ४३ अध्यायः ॥ (वायससम्बन्धिनि, त्रि । यथा, महाभारते । १२ । ८२ । ७ — ८ । “स काकं पञ्जरे बद्धा विषयं क्षेमदर्शिनः । सर्व्वं पर्य्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः ॥ अधीध्वं वायसीं विद्यां शंसन्ति मम वायसाः । अनागतमतीतञ्च यच्च संप्रति वर्त्तते ॥”)



Correction: