वाचस्पत्यम्
वायसोली || स्त्री वायसमोडते ओड—उत्क्षेपे अच् डस्य लः शक० गौरा० ङीष् । काकमाच्याम् शब्दर० । स्वार्थे क तत्रैव ।
शब्दकल्पद्रुमः
वायसोली || स्त्री (वायसान् ओलण्डयतीति ॥ ओलडि उत्क्षेपे + “अनेष्वपि दृश्यते ।” इति डः । शकन्ध्वादित्वात् अस्य लोपः ।)
काकोली । इत्यमरः । २ । ४ । १४४ ॥