वाचस्पत्यम्
वायु || पु० वा—उण् । १ स्पर्शगुणके पञ्चभूतमध्ये भूतभेदे उत्तरपश्चिमविदिशाधिपतौ २ देवभेदे ३ देहस्थधातुभेदे च अनिलसब्दे १६४ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
वायुः || पुं, (वातीति । वागतिगन्धनयोः + “कृवा- पाजिमिस्वदिसाध्यशूभ्य उण् ।” उणा० १ । १ । इति उण् । “आतो युक्चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।)
उत्तरपश्चिमकोणाधिपतिः । वाति यः । वातास इति भाषा । स च पञ्चभूतान्तर्गतभूतविशेषः । तद्विशेषविवरणं यथा । वायवः प्राणापानव्यानोदानसमानाः ॥ प्राणो नाम प्राग्गमनवान् नासाग्रस्थानवर्त्ती । अपानो नाम अवाग्गमनवान् पाय्वादिस्थान- वर्त्ती । व्यानो नाम विश्वग्गमनवानखिलशरीर- वर्त्ती । उदानः कण्ठस्थानीय ऊर्द्ध्वगमनवानुत्- क्रमणवायुः । समानः शरीरमध्यगताशित- पीतान्नादिसमीकरणकरः । समीकरणन्तु परि- पाककरणं रसरुधिरशुक्रपुरीषादिकरणम् ॥ केचित्तु नागकूर्म्मकृकरदेवदत्तधनञ्जयाख्याः पञ्चान्ये वायवः सन्तीत्याहुः । नत्र नागः उद्गिरणकरः । कूर्म्मः निमीलनादिकरः । कृकरः क्षुधाकरः । देवदत्तः जृम्भणकरः । धनञ्जयः पोषणकरः । एतेषां प्राणादिष्वन्त- र्भावात् प्राणादयः पञ्चैवेति केचित् ॥ इदं प्राणादिपञ्चकं आकाशादिगतरजोऽंशेभ्यो मिलितेभ्य उत्पद्यते । इदं प्राणादिपञ्चकं कर्म्मेन्द्रियसहितं सत् प्राणमयकोशो भवति । अस्य क्रियात्मकत्वेन रजोऽशकार्य्यत्वम् । एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्त्तृ- रूपः । मनोमय इच्छाशक्तिमान् करणरूपः । प्राणमयः क्रियाशक्तिमान् कार्य्यरूपः । इति वेदान्तसारः ॥ तत्पर्य्यायः । श्वसनः ३ स्पर्शनः ३ मातरिश्वा ४ सदागतिः ५ पृषदश्वः ६ गन्ध- वहः ७ गन्धवाहः ८ अनिलः ९ आशुगः १० समीरः ११ मारुतः १२ मरुत् १३ जगत्प्राणः १४ समीरणः १५ नभस्वान् १६ वातः १७ पवनः १८ पवमानः १९ प्रभञ्जनः २० । इत्य- मरः ॥ अजगत्प्राणः २१ खश्वासः २२ वाहः २३ धूलिध्वजः २४ फणिप्रियः २५ वातिः २६ नभःप्राणः २७ भोगिकान्तः २८ स्वकम्पनः २९ अक्षतिः ३० कम्पलक्ष्मा ३१ शसीनिः ३२ आवकः ३३ हरिः ३४ । इति शब्दरत्नावली ॥ वासः ३५ सुखाशः ३६ मृगवाहनः २७ सारः ३८ चञ्चलः ३९ विहगः ४० प्रकम्पनः ४१ नभः- स्वरः ४२ निश्वासकः ४३ स्तनूनः ४४ पृषतां- पतिः । इति जटाधरः ॥ * ॥
स च सृष्टि- काले आकाशाज्जातः । यथा । तस्माद्बा एतस्मादात्मन आकाशः संभूत आकाशा- द्वायुः । इत्यादि तैत्तिरीयश्रुतिः ॥ * ॥
ऊन- पञ्चादशद्बायुरदितेः पुत्त्राः । ते सर्व्वे अप्रजाः । इन्द्रेण देवत्वं प्रापिताः । शरीरान्तर्ब्बाह्यभेदेन दशधा । यथा । प्राणः १ । तस्य कर्म्म वहि- र्गमनम् । अपानः २ । तस्य कर्म्म अधोगम- नम् । व्यानः ३ । तस्य कर्म्म आकुञ्चनप्रसा- रणादि । समानः ४ । तस्य कर्म्म अशितपीता- दीनां समं नयनम् । उदानः ५ । तस्य कर्म्म ऊर्द्ध्वनयनम् । “उद्गारे नाग ६ आख्यातः कूर्म्म ७ उन्मीलने स्मृतः । कृकरः ८ क्षुत्करो ज्ञेयो देवदत्तो ९ विजृम्भणे । न जहाति मृतञ्चापि सर्व्वव्यापी धनञ्जयः १० ॥” इति भागवतटीकायां श्रीधरस्वामी ॥ * ॥
अन्यच्च । “द्वितीयं मारुतो भूतं त्वगध्यात्मञ्च विश्रुता । स्पर्ष्टव्यमधिभूतञ्च विद्युत्तत्राधिदैवतम् ॥” इति महाभारते आश्वमेधिकपर्व्व ॥ तस्य गुणाः । यथा, —
“वायोरनियमस्पर्शो वादस्थानं स्वतन्त्रता । बलं शैघ्रञ्च मोक्षश्च कर्म्म चेष्टात्मता भवः ॥” इति महाभारते मोक्षधर्म्मः ॥ * ॥
अनियमस्पर्शः । अनुष्णाशीतस्पर्शः १ । वाद- स्थानम् । वागिन्द्रियगोलकानि २ । स्वतन्त्रता । गमनादौ ३ । बलम् ४ । शैघ्रम् ५ । मोक्षः सूत्रादेः ६ । कर्म्म । उत्क्षेपणादि ७ । चेष्टा श्वासप्रश्वासादि ८ । आत्मता प्राणरूपेण चिद्वाधित्वम् ९ । भवः । जन्ममरणे १० । इति तट्टीका ॥ * ॥
न्यायमते अस्य गुणादिर्यथा, —
“अपाकजानुष्णाशीतस्पर्शस्तु पवने मतः । तिर्य्यग्गमनवानेष ज्ञेयः स्पर्शादिलिङ्गकः ॥ पूर्ब्बवन्नित्यताद्युक्तं देहव्यापि त्वगिन्द्रियम् । प्राणांदिस्तु महावायुपर्य्यन्तविषयो मतः ॥” इति भाषापरिच्छेदः ॥ “वायुं निरूपयति अपाकज इति । अनुष्णा- शीतस्पर्शस्य पृथिव्यामपि सत्त्वात् अपाकज इति । अपाकजस्पर्शस्य जलादावपि सत्त्वात् उक्तमनुष्णाशीत इति । एतेन वायोर्व्विजा- तीयस्पर्शो दर्शितः । तज्जनकतावच्छेदकं वायु- त्वमिति भावः । एष वायुः स्पर्शादिलिङ्गकः । वायुर्हि स्पर्शशब्दधृतिकम्पैरनुमीयते । विजा- तीयस्पर्शेन विलक्षणशब्देन तृणादीनां धृत्या शाखादीनां कम्पनेन च वायोरनुमानात् । तथा च वायुर्न प्रत्यक्षस्तथाग्रे वक्ष्यते । वायु- र्नित्योऽनित्यो वा परमाणुरूपो नित्यस्तदन्यो- ऽनित्यः समवेतश्च । सोऽपि त्रिविधः शरीरे- नियविषयभेदात् । अत्र शरीरमयोनिजं पिशाचादीनाम् । देहव्यापीति । शरीरव्यापकं स्यर्शग्राहकमिन्द्रियं त्वक् । तच्च वायवीयं रूपादिषु मध्ये स्पर्शस्यैव व्यञ्जकत्वात् । अङ्ग- संसर्गिसलिलशैत्यव्यञ्जकव्यजनवातवत् । विषयं दर्शयति प्राणादिरिति । यद्यप्यनित्यो वायु- अतुर्व्विधः तस्य चातुर्व्विध्यं प्राणादिना इत्युक्त- माकरे । तथापि संहेपात् अत्रं त्रैविध्यमुक्तं प्राणस्त्वेक एव हृदादिनानास्थानवशात् मुख- निर्गमादिनानाक्रियावशाच्च नानासंज्ञां लभते इत्यर्थः ।” इति सिद्धान्तमुक्तावली ॥ * ॥
अस्योत्- पत्तिर्यथा, — पुलस्त्य उवाच । “प्रविश्य जठरं शुद्धो दैत्यमातुः पुरन्दरः । ददर्शोर्द्ध्वमुखं बालं कटिन्यस्तकरं महत् ॥ तेनैव गर्भं दितिजं वज्रेण शतपर्व्वणा । चिच्छेद सप्तधा ब्रह्मन् स रुरोद सुविस्वरम् ॥ शक्रोऽपि प्राह मा मूढ रुदस्वेति सघर्घरम् । इत्येवमुक्त्वा चैकैकं भूयश्चिच्छेद सप्तधा ॥ ते जाता मरुतो नाम देवा दित्याः शतक्रतोः । मातुरेवापचारेण बलवीर्य्यपुरस्कृताः ॥” इति वामने ६८ अध्यायः ॥ “यदमी भवता प्रोक्ता मरुतो दितिसम्भवाः । तत् केन पूर्ब्बमासन् वै मरुन्मार्गेण कथ्यताम् ॥ पुलस्त्य उवाच । श्रूयतां पूर्ब्बमरुतामुत्पत्तिं कथयामि ते । स्वायम्भुवं समारभ्य यावन्मन्वन्तरं त्विदम् ॥ स्वायम्भुवस्य पुत्त्रोऽभून्मनोर्नाम प्रियव्रतः । तस्यासीत् सवनो नाम पुत्त्रस्त्रैलोक्यपूजितः ॥ स्वमुत्पपाताथ स कामचारी समं महिष्या वसुमानपुत्त्र्या । रराम तन्व्या सह कामचारी ततोऽम्बरात् प्राच्यवतास्य शुक्रम् ॥ पतिभिः समनुज्ञाताः पपुः पुष्करसंस्थितम् । तं शुक्रं पार्थिवेन्द्रस्य मन्यमानास्तदामृतम् ॥ पीतमात्रेण शुक्रेण पार्थिवेन्द्रोद्भवेन च । ब्रह्मतेजोविहीनास्ता जाताः पत्न्यस्तपस्विनाम् ॥ सुषुवुः सप्त तनयांस्ते रुदन्तोऽथ भैरवम् । तेषां रुदितशब्देन सर्व्वमापूरितं जगत् ॥ अथाजगाम भगवान् ब्रह्मलोकात् पितामहः । समभ्येत्याब्रवीद्वालान् मा रुदध्वं महाबलाः ॥ मरुतो नाम यूयं वै भविष्यध्वं वियश्चराः । इत्येवमुक्ता देवेशो ब्रह्मा लोकपितामहः ॥ तानादाय वियञ्चारी मारुतानादिदेश ह । ते चासन् मरुतश्चाद्या मनोः स्वायम्भुवान्तरे ॥ * ॥
स्वारोचिषे तु मरुतो वक्ष्यामि शृणु नारद । स्वारोचिषस्य पुत्त्रश्च श्रीमानासीत् क्रतुध्वजः ॥ तस्य पुत्त्रा भवन् सप्त सप्तार्च्चिःप्र तिमा मुने ! । तपोऽर्थं ते गताः शैलं महामेरुं नभश्चराः ॥ आराधयन्तो ब्रह्माणं पदमैन्द्रमथेप्सवः । ततो विपश्चिन्नामाथ सहसाक्षो भयातुरः । पृतनामप्सरोमुख्यां प्राह नारद वाक्यवित् ॥ यथा हि तपसो विघ्नं तेषां भवति सुन्दरि ! । तथा कुरुष्व मा तेषां सिद्धिर्भवतु वै यथा ॥ इत्येवमुक्वा शक्रेण पृतना रूपशालिनी । तत्राजगाम त्वरिता यत्र तप्यन्ति ते तपः ॥ आश्रमस्याविदूरे तु नदी मन्दीदवाहिनी । तस्यां स्नातुं समायाताः सर्व्व एव सहोदराः ॥ सा तु स्नातुं सुचार्व्वङ्गी त्ववतीर्णा महा- नदीम् । ददृशुस्ते नृपाः स्नातुं ततश्चुक्षुभिरे मुने ॥ तेषाञ्च प्राच्यवत् शुक्रं तत् पपौ जलचारिणी । शङ्खिनी ग्राहमुख्यस्य महाशङ्खख्य वल्लभा । ते वै विनष्टतपसो जग्मू राज्यन्तु पैतृकम् ॥ अहो बहुतिथे काले सा ग्राही शङ्खरूपिणी । समुद्धृता महाजालैर्मत्स्यबन्धेन मानिनी ॥ स तां दृष्ट्वा महाशङ्खीं स्थलस्थां मत्स्यजीवनः । विवेदयामास तदा क्रतुध्वजसुतेषु वै ॥ तथाभ्येत्य महात्मानो योगिनो योगधारिणः नीत्वा स्वमन्दिरं सर्व्वे पुरवाप्यां समुत्सृजन् ॥ ततः क्रमाच्छङ्खिनी सा सुषुवे सप्त वै शिशून् । जातमात्रेषु पुत्त्रेषु मोक्षभावमगाश्च सा ॥ अमातृपितृका बाला जलमध्यविचारिणः । स्तन्यार्थिनो वै रुरुदुरथाभ्यागात् पितामहः ॥ मा रुदध्वमिति प्राह मारुतो नाम पुत्त्रकाः । यूयं देवा भविष्यध्वं वायवोऽम्बरचारिणः ॥ इत्येवमुक्त्वाथादाय सर्व्वांस्तान् दैवतान् प्रति । नियोज्य च मरुन्मार्गे वैराजभवनं गतः ॥ एवमासंश्च मरुतो मनोः स्वारोचिषान्तरे ॥ * ॥
औत्तमे मरुतो ये च तान् शृणुष्व तपोधन । औत्तमस्यान्ववाये च राजासीन्निषधाधिपः । वपुष्मानिति विख्यातो वपुषा भास्करोपमः ॥ तस्य पुत्त्रो गणश्रेष्ठो ज्योतिष्मान् धार्म्मिको- ऽभवत् । स पुत्त्रार्थी तपस्तेपे नदीं मन्दाकिनीमनु ॥ तस्य भार्य्या च सुश्रोणी देवाचार्य्यसुता शुभा । तपश्चरणयुक्तस्य बभूव परिचारिका ॥ तेजोयुक्ता सुचार्व्वङ्गी दृष्टा सप्तर्षिभिर्व्वने । तां तथा चारुसर्व्वाङ्गीं दृष्ट्वाथ तपसा कृशाम् ॥ पप्रच्छस्तपसो हेतुन्तस्यास्तद्भर्त्तुरेव च । साब्रवीत्तनयार्थाय आवाभ्यां वै तपःक्रिया ॥ ते चास्यै वरदा ब्रह्मन् जाताः सप्त महषयः ॥ व्रजध्वं तनयाः सप्त भविष्यन्ति न संशयः । युवयोर्गुणसंयुक्ता महर्षीणां प्रसादतः । इत्येवमुक्त्वा जग्मुस्ते सर्व्व एव महर्षयः । सोऽपि राजर्षिरगमत् सभार्य्यो नगरं निजम् ॥ ततो बहुतिथे काले सा राज्ञो महिषी प्रिया । अवाप गर्भं तन्वङ्गी तस्मान्नृपतिसत्तमात् ॥ गुर्व्विण्यामथ भार्य्यायां ममारासौ नराधिपः । सा चाप्यारोढुमिच्छन्ती भर्त्तारं वै पतिव्रता ॥ निवारिता तदामात्यैर्न तथापि व्यतिष्ठत । तस्यामालिङ्ग्य भर्त्तारं चितायामारुहच्च सा ॥ ततोऽग्निमध्यात् सलिले मांसपेश्यपतन्मुने । साम्भसा सुखशीतेन संसिक्ता सप्तधाभवत् । तेऽजायन्ताथ मरुत औत्तमस्यान्तरे मनोः ॥ * ॥
तामसस्यान्तरे ये च मरुतोऽप्यभवन् पुरा । तानहं कीर्त्तयिष्यामि गीतनृत्यकलिप्रिय ! ॥ तामसस्य मनोः पुत्त्र ऋतध्वज इति श्रुतः । स पुत्त्रार्थी जुहावाग्नौ स्वमांसं रुधिरं तथा ॥ अस्थीनि रोम केशांश्च स्नायु मज्जा यकृद्व्रणम् । शुक्रं च वित्रसो राजा सुतार्थी चेति नः श्रुतम् ॥ सप्तार्च्चिर्मथ्याच्च ततः शुक्रपातादनन्तरम् । मा मे क्षिपस्वेत्यसरत् शब्दः सोऽपि नृपो मृतः ॥ ततस्तस्माद्धुतवहात् सप्त तत्तेजसोपमाः । शिशवः समजायन्त ते रुदन्तश्च तन्मुने ॥ तेषान्तु ध्वनिमाकर्ण्य भगवान् पद्मसम्भवः । समागम्य निवार्य्याथ स चक्रे मरुतः सुतान् ॥ ते त्वासन्मरुतो ब्रह्मंस्तामसे देवतागणाः । * । येऽभवन्रैवते तांश्च शृणुष्व त्वं तपोधन ॥ रेवतस्यान्ववाये तु राजासीद्रिपुजिद्बली । रिपुजिन्नाम स ख्यातो न तस्यासीत् सुतः किल ॥ स समाराध्य तपसा भास्करं तेजसां निधिम् । अवाप कन्यां सुरतिं तां प्रगृह्य गृहं ययौ ॥ तस्यां पितृगृहे ब्रह्मन् वसत्याञ्च पिता मृतः । सापि दुःखपरीताङ्गी स्वां तनुं त्यक्तुमुद्यता ॥ ततस्तां वारयामासुरृषयः सप्त मानसाः । तस्वामासक्तचित्तास्तु सर्व्व एव तपोधनाः ॥ अपारयन्ती तद्दुःखं प्रज्वाल्याग्निं विवेश ह । ते चापश्यन्त ऋषयस्तच्चित्ताभावितास्तथा ॥ तां मृतां ऋषयो दृष्ट्वा कष्टं कष्टेति वादिनः । प्रजग्मुर्ज्वलनाच्चापि सप्ताजायन्त दारकाः ॥ ते च मात्रा विना भूता रुरुदुस्तान् पितामहः । निवारयित्वा कृतवान् लोकनाथो मरुद्गणान् ॥ रेवतस्यान्तरे जाता मरुतोऽमी तपोधन । * । शृखुष्व कीर्त्तयिष्यामि चाक्षुषस्यान्तरे मनोः ॥ आसीन्माङ्कीति विख्यातो तपस्वी सत्यवाक् शुचिः । सप्त सारस्वते तीर्थे सोऽतप्यत महत्तपः ॥ विघ्नार्थं तस्य तपसो देवाः संप्रेरयन् वधूम् । सा चाभ्येत्य नदीतीरं क्षोभयामास भाविनी ॥ ततोऽस्य प्राच्यवच्छुक्रं सप्त सारस्वते जले । तां चेवाप्यशपन्मूढां मुनिर्म्माङ्कनिको बधूम् ॥ गच्छालज्जेति मुढे त्वं पापस्यास्य फलं महत् । विध्वंसयिष्यति हयो भवतीं यज्ञसंसदि ॥ एवं शप्त्वा ऋषिः श्रीमान् जगामाथ स्वमाश्रयम् । सरस्वतीभ्यः सप्तभ्यः सप्त वै मरुतोऽभवन् ॥ एते तवोक्ता मरुतः पुरा यथा जाता वियद्व्याप्तिकरा महर्षे । येषां श्रुते जन्मनि पापहानि- र्भवेच्च धर्म्माभ्युदयो महान् वै ॥” इति वामने मरुतोत्पत्तिर्नाम ६९ अध्यायः ॥ * ॥
अन्यच्च । “अतः परं प्रवक्ष्यामि मरुतोऽग्नीन् पितॄन् ग्रहान् । प्रावाहो निवहश्चैव उद्वहः संवहस्तथा ॥ विवहः प्रवहश्चैव परिवाहस्तथैव च । अन्तरीक्षे च बाह्ये ते पृथङ्मार्गविचारिणः ॥ महेन्द्रप्रविभक्ताङ्गा मरुतः सप्त कीर्त्तिताः । * । सूर्य्याग्निश्च शुचिर्नामा वैद्युतः पावकः स्मृतः ॥ निर्म्मथ्य पचमानोऽग्निस्त्रयः प्रोक्ता इमेऽग्नयः । अग्नीनां पुत्त्रपौत्त्राश्च चत्वारिंशन्नवैव तु । मरुतामपि सर्व्वेषां विज्ञेयाः सप्त सप्तकाः ॥” इति देवीपुराणे कालव्यवस्थानामाध्यायः ॥ * ॥
ऊनपञ्चाशद्वायुनामानि यथा, —
“एकज्योतिश्च द्विर्ज्योतिस्त्रिज्योतिज्योतिरेव च । एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः ॥ इन्द्रश्च गत्यदृश्यश्च ततः पतिसकृत्परः । मितश्च संमितश्चैव मुमितश्च महाबलः ॥ ऋतजित् सत्यजिच्चैव सुषेणः सेनजित्तथा । अन्तिमित्रोऽनमित्रश्च पुरुमित्रोऽपराजितः ॥ ऋतश्च ऋतवाहश्च धर्त्ता च धरुणो ध्रुवः । विधारणो नाम तथा देवदेवो महाबलः ॥ ईदृक्षश्चाप्यदृक्षश्च एते दश मिताशिनः । व्रतिनः प्रसदृक्षश्च सभरश्च महायशाः ॥ धाता दुर्गो धितिर्भीमस्त्वभियुक्तस्त्वपात् सहः । घुतिर्घपुरनाय्योऽथ वासः कामो जयो विराट् । इत्येकोनाश्च पञ्चाशन्मरुतः पूर्व्वसंभवाः ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥
वायोर्विकारहेतुर्यथा, —
“व्यायामादपतर्पणात् प्रपतनाद्भङ्गात् क्षया- ज्जागरात् वेगानाञ्च विधारणादतिशुचः शैत्यादति- त्रासतः । रूक्षक्षारकषायतिक्तकटुकैरेभिः प्रकोपं व्रजेत् वायुर्व्वारिधराममे परिणते चान्नेऽपराह्णेऽपि च ॥” * ॥
तस्य लक्षणम् । “आध्मानस्तम्भरौक्ष्यस्फुटनविमथनक्षोभकम्प- प्रतोदाः कण्ठध्वंसावसादो श्रमकविलपनं स्रंसशूल- प्रभेदाः । पारुष्यं कर्णनादो विषयपरिणतिभ्रंशदृष्टि- प्रमोहा विस्पन्दोद्वट्टनादिग्लपनमनशनं ताडनं पीड- नञ्च ॥ नामोन्नामौ विषादो भ्रमपरिषदनं जृम्भणं रोमहर्षो विक्षेपाक्षेपशोषग्रहणशुषिरता छेदनं वेष्टनञ्च । वर्णः श्यावोऽरुणो वा तृडपि च महती स्वाप- विश्लेषसङ्गा विद्यात् कर्म्माण्यमूनि प्रकुपितपवनः स्यात् कषायो रसश्च ॥” * ॥
अन्यच्च । “वदनविरसता स्याद्वर्च्चसः कर्कशत्वं भवति वपुषि कार्श्यं रात्रिनिद्रानिवृत्तिः । त्वचि च परुषता स्यात् स्याच्च वैषम्यमग्ने- रिति पवनविकारे लक्षणं प्रोक्तमेतत् ॥” * ॥
तस्य प्रशमताकारणम् । यथा, —
“रूक्षशीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः । विपरीतगुणैर्द्रव्यैर्मारुतः संप्रशाम्यति ॥ स्निग्धोष्णस्थिरवृष्यबल्यलवणस्वाद्वम्लतैलातप- स्नानाभ्यञ्जनवस्तिमांसमदिरासंवाहनोन्मर्द्दनैः । स्निग्धस्वेदनिरूहणोपशमनः स्नेहोपनाहादिकं पानाहारविहारभेषजमिदं वातं प्रशान्तं नयेत् ॥” * ॥
ऋतुभेदेन विहारादिना च तस्य चयप्रकोप- प्रशमनानि यथा, —
“ग्रीष्मे सञ्चीयते वायुः प्रावृट्काले प्रकुप्यति । प्रायेणोपशमं याति स्वयमेव समीरणः ॥ शरत्काले वसन्ते च पित्तं प्रावृडृतौ कफः । चयकोपशमान्दोषा विहाराहारसेवनैः । समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्य्ययः ॥” * ॥
स च प्राणादिभेदेन पञ्चविधः । यथा, —
“पित्तं पङ्गु कफः पङ्गुः पङ्गवो मलधातवः । वायुना यत्र नीयन्ते तत्र वर्षन्ति मेघवत् ॥ वायुरायुर्ब्बलं वायुर्वायुर्धाता शरीरिणाम् । वायुर्व्विश्वमिदं सर्व्वं प्रभुर्व्वायुः प्रकीर्त्तितः ॥ वाह्यमण्डलचक्रेषु यथा राजा प्रशस्यते । तथा शरीरमध्येऽपि वायुरेकः परो विभुः ॥ वायुः प्राणादिभेदेन सच पञ्चविधः स्मृतः । हृदि प्राणो गुदेऽपानः समानो नाभिमध्यगः ॥ उदानः कण्ठदेशे तु व्यानः सर्व्वशरीरगः । योऽनिलो रक्तसञ्चारी स प्राणो नाम देहधृक् ॥ सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चैवावलम्बते । कुपितः कुरुते रोगान् हिक्काध्मानादिकानपि ॥ उदानो नाम यस्तूर्द्ध्वमुपैति पवनोत्तमः । तेन भाषितगीतादिविशेषोऽपि प्रवर्त्तते ॥ ऊर्द्ध्वजत्रूगतान् रोगान् करोति कुपितश्च सः । आमपक्वाशयचरः समानोऽग्निसहायवान् ॥ अन्नं पचति तज्जांश्च विकारान् विविनक्ति सः । गुल्माग्निसादातीसारान् कुपितञ्च करोति सः ॥ पक्काशयस्थोऽपानस्तु काले कर्षति चाप्यधः । वातमूत्रपुरीषाणि शुक्रगर्भार्त्तवानि च ॥ क्रुद्धश्च कुरुते रोगान् घोरान् वस्तिगुदाश्रयान् । सर्व्वदेहचरो व्यानो रससंवाहनोद्यतः ॥ स्वेदासृक्स्रावणश्चापि पञ्चधा वेष्टयत्यपि । क्रुद्धश्च कुरुते रोगान् प्रायशः सर्व्वदेहगान् ॥ शुक्रदोषाः प्रमेहाश्च व्यानापानप्रकोपजाः । युगपत् कुपिताश्चामी देहं हन्युरसंशयः ॥” * ॥
तत्प्रकृतिकस्य लक्षणं यथा, —
“अल्पकेशः कृशो रूक्षो वाचालश्चलमानसः । आकाशचारी स्वप्नेषु वातप्रकृतिको नरः ॥” * ॥
प्राणादिपञ्चवायूनां यथाक्रमं संज्ञान्तरमाह । “प्राणोऽपानः समानश्चोदानव्यानौ च वायवः । नागः कूर्म्मश्च कृकरो देवदत्तो धनञ्जयः ॥ * ॥
प्राणस्तु प्रथमो वायुर्नराणामधिपः प्रभुः । नित्यमावापयेत् सर्व्वान् प्राणिनामुरसि स्थितः ॥ निःश्वासोच्छ्वासकश्चैव प्राणो जीवं समाश्रितः । प्रसाराकुञ्चनो वायुः प्रकाशो धारणस्तथा ॥ प्राणस्त्वेवंविधं कुर्य्यात् प्राणिनां प्राणधारकः । प्राणनं कुरुते यस्मात् तस्मात् प्राणः प्रकी- र्त्तितः ॥ प्राणो हि भगवान् ईशः प्राणो विष्णः पिता- महः । प्राणेन धार्य्यते लोकः सर्व्वं प्राणमयं जगम् ॥ इन्द्रियाणि प्रवर्त्तन्ते यावत् प्राणानिले हृदि । नष्टे न दृश्यते सर्व्वं तस्मात् प्राणन्तु रक्षयेत् ॥ रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः । गुणवद्धस्तथा जीवः प्राणापानेन कृष्यते ॥ अपानयंस्तथाहारं मनुजानां यतोऽधमः । शुक्रमूत्रव्रजे वायुरपानस्तेन कीर्त्तितः ॥ * ॥
पीतं भक्षितमाघ्रातं रक्तं पित्तकफानिलान् । समं नयति ग्रात्रेषु समानो नाम मारुतः ॥ समानोऽग्निसमीपस्थः कोष्ठे च वाति सर्व्वतः । अन्नं गृह्णाति पचति विरेचयति मुञ्चति ॥ * ॥
स्पन्दयत्यधरं वक्त्रं नेत्रगात्रप्रकोपणः । उद्वेजयति मर्म्माणि उदानो नाम मारुतः ॥ * ॥
व्यानो विनामयत्यङ्गं व्यानो व्याधिप्रकोपणः । प्रीतेर्व्विनाशकश्चायं वार्द्ध्वकोत्पादकस्तथा ॥” * ॥
वायूनां स्थानानि । “शिरसो नासिकाप्रान्तमुदानस्थानमुच्यते । नाभेः पादतलं यावदपानस्य प्रकीर्त्तितम् ॥ शरीरव्यापको व्यानः प्राणः सकलनायकः । उद्गारे नाग इत्युक्तः कूर्म्मश्चोन्मीलने स्थितः ॥ कृकरः क्षुधिते चैव देवदत्तो विजृम्भिते । धनञ्जयः स्थितो मेढ्रे मृतस्यापि न मुञ्चति । भूतावाप्तिस्ततस्तस्याजायतेन्द्रियगोचरात् ॥ * ॥
उत्साहोच्छ्वासनिःश्वासचेष्टाधातुगतिः समाः । समो मोक्षे गतिमतां वायोः कर्म्माविकारजम् ॥” इति सुखबोधः ॥ * ॥
अथ दिग्भववायुगुणाः । “प्राग्वातो मधुरः क्षारो वह्निमान्द्यकरो मुरुः । वैरस्यगौरवौष्णानि करोत्यप्स्वोषधीषु च ॥ भग्नोत्पिष्टक्षताद्येषु रागश्वयथुदाहकृत् । सन्निपातज्वरश्वासत्वग्दोषार्शोविषक्रिमीन् । कोपयेदामवातञ्च घनसंघातकारणम् ॥ दाक्षिणो मारुतो बल्यश्चक्षुष्यः शस्यघातकः । मधुरश्चाम्लदाही च कषायानुरसो लघुः ॥ रक्तपित्तप्रशमनो न च मारुतकोपनः । गण्डूपदादिकीटानां जनकः प्राणकारकः ॥ पाश्चिमोऽग्निवपुर्वर्णबलारोग्यविवर्द्धनः । कषायः शोषणः स्वर्य्यो रोचनो विशदो लघुः ॥ अपां लघुत्ववैशद्यशैत्यवैमल्यकारकः । सर्व्वद्रव्येष्वभिव्यक्तप्रभावरसवीर्य्यकृत् । व्रणसंरोपणस्त्वच्यो दाहशोथतृषापहः ॥ औत्तरो मारुतः स्निग्धो मृदुर्म्मधुर एव च । कषायानुरसः शीतः सर्व्वदोषप्रकोपणः ॥ क्षीणक्षतविषार्त्तानां हितो दाहतृषापहः । शीताधिकः सनीहारः सविद्युत्स्तनयित्नुमान् ॥ विश्वग्वायुरनायुष्यः प्राणिनां नैकदोषकृत् । सर्व्वर्त्तुनिन्दको हन्ता कृत्योत्पातपुरःसरः ॥” * ॥
व्यजनवायुगुणाः । “मूर्च्छदाहतृषास्वेदश्रमघ्नो व्यजनानिलः । तालवृन्तमयो वातस्त्रिदोषशमनो लघुः ॥ वंशव्यजनजो वातो रूक्षोष्णो वातपित्तदः । बालव्यजनमोजस्यं मक्षिकादीन् व्यपोहति । मायूरा वस्त्रजा वैत्रा वाता दोषत्रयापहाः ॥” इति राजवल्लभः ॥ * ॥
अपि च । तत्र वायोः स्वरूपमाह । “दोषधातुमलादीनां नेता शीघ्रः समीरणः । रजोगुणमयः सूक्ष्मो रूक्षः शीतो लघुश्चलः ॥” नेता स्थानान्तरे प्रापयिता । शीघ्रः आशु- कारी । अन्यच्च । “उत्माहोच्छ्वासनिःश्वासचेष्टावेगप्रवर्त्तनैः । सम्यग्गत्या च धातूनामिन्द्रियाणाञ्च पाटवैः ॥ अनुगृह्णात्यविकृतो हृदयेन्द्रियचित्तधृक् । रजोगुणमयः सूक्ष्मो रूक्षः शीतो लघुश्चलः ॥ स्वरो मृदुर्योगवाही संयोगादुभयार्थकृत् । दाहहृत्तेजसा युक्तः शीतकृत् सोमसंश्रयात् ॥ विभागकरणाद्वायुः प्रधानं दोषसंग्रहैः । पक्वाशयकटीसक्थिश्रोत्रास्थिस्पर्शनेन्द्रियम् । स्थानं वातस्य तत्रापि पक्वाधानं विशेषतः ॥” एको वायुः पित्तवशान्नामस्थानकर्म्मभेदैः पञ्च- विधः ॥ * ॥
तेषां वायूनां नामान्याह । “उदानस्तदनु प्राणः समानोऽपान एव च । व्यानश्चैतानि नामानि वायोः स्थानप्रभेदतः ॥” अथोदानादीनां स्थानान्याह । “कण्ठे हृदि तथाधस्तात् कोष्ठवह्नेर्मलाशये । सकलेऽपि शरीरेऽसौ क्रमेण पवनो वसेत् ॥” अथ तेषां कर्म्माण्याह । “उदानो नाम यस्तूर्द्ध्वमुपैति पवनोत्तमः । तेन भाषितगीतादिप्रवृत्तिः कुपितस्तु सः । ऊर्द्ध्वजत्रगतान् रोगान् विदधाति विशेषतः ॥ यो वायुः प्राणनामासौ सुखं गच्छति देहधृक् । सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते ॥ प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान् । आमपक्वाशयचरः समानो वह्निसङ्गतः ॥ सोऽन्नं पचति तज्जांश्च विशेषान् विविनक्ति हि ॥” तज्जानित्याह अन्नजान् । रसमलमूत्रादीन् पृथक्करोतीत्यर्थः । “स दुष्टो वह्निमान्द्यातिसारगुल्मान् करोति हि । पक्वाशयालयोऽपानः काले कर्षति चाप्ययम् ॥ समीरणः शकृन्मूत्रशुक्रगर्भार्त्तवान्यधः । क्रुद्धस्तु कुरुते रोगान् घोरान् वस्तिगुदाश्रयान् ॥ शुक्रदोषप्रमेहांश्च व्यानापानप्रकोपजान् ॥” स च । “कृत्स्नदेहचरो व्यानो रससंदहनो यतः । स्वेदासृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि ॥ गत्यपक्षेपणोत्क्षेपनिमेषोन्मेषणादिकाः । पायः सर्व्वाः क्रियास्तस्मिन् प्रतिबन्धाः शरी- रिणाम् ॥ प्रस्यन्दनं चोद्वहनं पूरणञ्च विरेचनम् । धारणञ्चेति पञ्चैताश्चेष्टाः प्रोक्ता नभस्वतः ॥ क्रुद्धः स कुरुते रोगान् प्रायशः सर्व्वदेहगान् । युगपत् कुपिता एते देहं भिन्द्युरसंशयम् ॥” देहं भिन्नं कुर्य्युर्मारयेयुरित्यर्थः । इति भाव- प्रकाशः ॥ * ॥
(असुरविशेषः । यथा, हरि- वंशे । २ । ८५ । “दीर्घजिह्वोऽर्कनयनो मृदुचापो मृदुप्रियः । वायुर्गरिष्ठो नमुचिः शम्बरोविजयो महान् ॥”)