वाचस्पत्यम्
वायुफल || न० वायुना फलति प्रतिफलति फल—अच् । १ इन्द्र- चापे २ करकायां च मेदि० ।
शब्दकल्पद्रुमः
वायुफलं || क्ली (वायुना फलति प्रतिफलतीति । फल् + अच् ।) शक्रधनुः । (वायोः फलमिव ।) करका । इति मेदिनी । ले, १६४ ॥