वाचस्पत्यम्
वायुभक्ष || पुंस्त्री० वायुं भक्षति भक्ष—अण् । १ सर्पे राजनि० । स्त्रियां ङीष् । ल्यु । वायुभक्षणोऽप्यत्र । वायुर्भक्ष्योऽस्य । वायुभक्ष्य तत्रार्थे पुंस्त्री० स्त्रियां टाप् ।