वाचस्पत्यम्
वार || पु० वृ—घञ् । १ सङ्घे २ अवसरे अमरः । स्वयोग्यकाले (पाला) “वारोऽङ्गराजस्वसुः” सा० ३ प० । ४ द्वारे ५ शिवे ६ कुब्जवृक्षे ७ क्षणे मेदि० । वार् + सघे अण् । ८ जलसघे न० सूर्य्यादिग्रहाधिकृते ९ दिने पु० यथा रविवारः रवि- स्यामिकं दिनम् । तदानयनञ्च सू० सि० “मन्दादधः क्रमेण स्यश्चतुर्था दिवसाधिपाः । वर्षा धिपतयस्तद्वत् तृतीयाश्च प्रकीर्त्तिताः । ऊर्ध्वक्रमेण शशिनो मामानामधिपाः स्मृताः । होरेशाः सूर्य्यतनया- दधोऽधःक्रमतस्तथा ।” सू० “शनेः मकाशादधःकक्षा- क्रमेण चतुर्थसङ्ख्याका ग्रहा दिनाधिपतया वारेश्वरा भवन्ति । यथा शनिरविचन्द्रभौमबुधगुरुशका इति । वर्षस्व षष्ट्यधिकशतत्रयदिनात्मकस्य स्वामिनस्तद्वन्म- न्दादधः क्रमेण तृतीयसङ्ख्यका ग्रहा उक्ताः । चः समुच्चयार्थे । तत्क्रमश्च यथा शनिभौमशुक्रचन्द्रगुरु- सूर्य्यबुधा इति । चन्द्रात् सकाशादूर्द्धकक्षाक्रमेण ग्रहा मासानां त्रिंशद्दिनात्मकानां स्वामिनः जथिताः । तत्क्रमश्च चन्द्रबुधशुक्ररविभौमगुरुशनथ इति । शनेः सकाशादधोथः क्रमतः अधःक्रमेण होरेशाः “होरेति लग्नं भगणस्व चार्धम्” इत्युक्तलग्नार्द्धभागात्मकहो- राणां दिने द्वादश रात्रौ द्वादशेत्यहोरात्रे चतुर्विंशति- होराणामित्यर्थः । होरा सार्धद्विनाडिका । इति षष्टिघटिकात्मकेऽहोरात्रे चतुर्विंशतिहोराणामि त्यन्ये स्वामिनस्तथा मासेश्वरवदव्यवहिताः कथिताः । यथा तत्क्रमः शनिगुरुभौमरविशुक्रबुधचन्द्रा इति । अत्र शनेः सर्वोर्द्धस्यत्वाच्चन्द्रस्य सर्बाधः स्थत्वात् ताभ्वा- मध ऊर्ध्वक्रमः क्रमेणोक्तः अन्यग्रहस्यावधित्वाभ्युप- गमे विनिगमनाविरहापत्तेः । न तु शनेराणा- वधित्वेन सृष्ट्यादौ दिनवर्षहोराणां स्वामित्वं न वा चन्द्रस्याद्यावधित्वेन सृष्ट्यादौ मासेशत्वं पूर्व- खण्डोक्तानीततदीशैर्विरोधापत्तेः । अत्रोपपत्तिः । हो- रारूपलग्नानां क्रान्तिवृत्तेऽधाक्रमेण मेषादीनां सम्भवा- दूर्ध्वकक्षातोऽधः क्रमेण होरेशत्वं युक्तम् । एवमहो- रात्रे चतुर्विंशतिर्होराः । सप्ततष्टास्त्रयो होरेसा गताः चतुर्थो होरेशो द्वितीयदिनप्रारम्भे स एव प्रथन- होरेशत्वाद् द्वितीयदिने होरेशः । एवमुत्तरत्रापि । एव- मेतद्वारक्रमेण सावनवर्षे त्रयो वारा अधिका इति पूर्व- वर्षेशादग्रिमवर्षेशाऽधःकक्षाक्रमेण तृतीय उत्तरोत्तरम् । एवं सावनमासे द्वौ वारौ वारक्रमेण मासेश्वरस्याधिका- विति कक्षोर्ध्वक्रमे वारक्रमेणैकान्तरितत्वात् कक्षो- र्ध्वक्रमेण मासेश्वर उत्तरोत्तरमित्युपपस्रं मन्दादि- त्यादि श्लोकदृयम्” रङ्गनाथः । वारप्रवृत्तिश्च दृशभेदात् भिन्नकालीना यथोक्तं सि० चि० “अर्कोदयादूर्ध्वमधश्च ताभि प्राच्यां प्रतीच्यां दिशि तत्- प्रवृत्तिः । ऊर्ध्वं तथाऽधश्च कलाभिराभीरयाषुदग्दक्षिण- गोलमात्रे” मू० । “प्राच्या ताभिर्घटीभिर्दनवारप्रवृत्ति- रर्कोदयादूध्वम् भवति प्रतीच्यां तु तस्मादधः । यतो लङ्कोदये वारादि अतएव च वारादुत्तरगोचस्थे चरो- र्ध्वघटिकामिरूर्ध्वम् यतस्तदा उन्मण्डलं क्षितिजा- दूर्ध्वम् । दक्षिणे त्वधः अतस्तत्रीदयादधः वारप्रवृत्तिः” प्रमिता० । “जगति तमोभूतेऽस्मिन् मृष्ट्यादौ भास्करादितिः सृष्टैः । यस्माद्दिनपवृत्तिर्दिनवारोऽर्कोदयात् तस्मत्” । श्रीपतिरपि “सृष्टेर्मुखे ध्वान्तमयेऽपि विश्वे ग्रहेषु सृष्टेष्विनपूर्वकेषु । दिनप्रवृत्तिस्तदधीश्वरस्य वारस्य तस्मादुदयप्रवृत्तिः । लङ्कोदग्याम्यसूत्रात् प्रथममपरतः पूर्वदेशे च पश्चात् अध्वोत्थाभिर्घटीभिः सवितुरुदयतो वासरे वा प्रवृत्तिः । ज्ञेया सूर्य्योदयात् प्राक् चरगकल- भवैश्चामुभिर्याम्यगोले पश्चात् तैः सौस्यगोले युतिवियुति- वशाच्चोभयोः स्पष्टकालः” । अन्योऽप्याह “केचिद्वारं सवितुरुदयात् प्राहुरन्ये दिनार्द्धात् भानोरर्द्धास्तमय समयादूचिरे केचिदेवम् । वारस्यादिं यवननृपतिर्दिङ् मुह्रर्त्ते निशाया लाटाचार्य्यः कथयति पुनश्चार्द्धरात्रे स्व तन्त्रे” । एवं मतभेदे व्यवस्था मलमा० उक्ता यथा “द्वो तिथ्यन्तावेकवारे यत्र स स्यात् दिनक्षयः” कूर्मपु० “एकस्मिन् सावने त्वह्नि तिथीनां त्रितयं यदा । तदा दिनक्षयः प्रोक्तस्तत्र साहस्रिकं फलम्” वसिष्ठः । कौर्मपुराणवासिष्ठवचनैकवाक्यतया सावनदिनवत् वारप्र- वृत्तिः सूर्य्योदयावधिरेव मूर्य्यसि० “सूतकानां परिच्छेदो दिनमासाव्दपास्तथा । मध्यमग्रहभुक्तिश्च सावनेन प्रकी- र्त्तिता” । अत्र दिनाधिपस्य रव्यादेर्भाग्यं दिनं वार- रूपं सावनगणनयोक्तम् यत्तु “रेखापूर्वापरयोः इत्या- दिना ज्यातिषे वारप्रवृत्तिरुक्ता तत् ज्योतिषशास्त्रो कालहोराज्ञानार्थम्” । वाराणां कृत्यविशेषविधा- नार्थं संज्ञाभेदा यथा “चरः सौम्यो गुरुः क्षिप्रो मृदुः शुक्रो रविर्ध्रुवः । शनिश्च दारुणो ज्ञेयो भौम उग्रः शशी समः । चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यं मृदुध्रुवैः । दारुणोग्रैश्च योद्धव्यं क्षत्त्रियैर्बुद्धका- ङ्क्षिभिः” । इति सामान्यतोऽभिधाय “नृपाभिषेको- ऽग्निकार्य्यञ्च सूर्य्यवारे प्रशस्पते । सोमे तु लेपयानं च कुर्य्याच्चैव गृहादिकम् । सैमापत्यं शौर्य्ययुद्धं शस्त्राभ्यासः कुजे तथा । सिद्धिकार्य्यञ्च गन्त्रञ्च यात्रां चौ बुधे तथा । पठनं देवपूला च वस्त्र द्याभरणं गुरौ । कन्यादानं गजारोहः शुक्रे स्यात् समयः स्त्रिया । स्थाप्यं गृहप्रवेशश्च गजबन्ध शगौ शुभः” गरुडपु० ६२ अ०
शब्दकल्पद्रुमः
वारं || क्ली (वार्य्यतेऽनेनेति । वृ + णिच् + घञ् ।)
मदिरापात्रम् । इति हेमचन्द्रः ॥
शब्दकल्पद्रुमः
वारः || पुं, (वारयति व्रियते वेति । वृ + णिच् + अच् । वृ + घञ् वा ।)
समूहः । अवसरः । इत्यमरः ॥ (यथा, महाभारते । १ । १६१ । ७ । “एकैकश्चापि पुरुषस्तत्प्रयच्छति भोजनम् । स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ॥”)
सूर्य्यादिवासरः । द्बारः । हरः । कुब्जवृक्षः । क्षणः । इति मेदिनी । रे, ६५ ॥ * ॥
अथ वाराणां संज्ञा । “चरः सौम्यो गुरुः क्षिप्रो मृदुः शुक्रो रविर्ध्रुवः । शनिश्च दारुणो ज्ञेयो भौम उग्रः शशी समः ॥ चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यं मृदुध्रुवैः । दारुणोग्रैश्च योद्धव्यं क्षत्त्रियैर्जयकाङ्क्षिभिः ॥ नृपाभिषेकोऽग्निकार्य्यं सूर्य्यवारे प्रशस्यते । सोमे तु लेपयानञ्च कुर्य्याच्चैव गृहादिकम् ॥ सैनापत्यं शौर्य्ययुद्धं शस्त्राभ्यासः कुजे तथा । सिद्धिकार्य्यञ्च मन्त्रश्च यात्रा चैव बुधे स्मृता ॥ पठनं देवपूजा च वस्त्राद्याभरणं गुरौ । कन्यादानं गजारोहः शुक्रे स्यात् समयः स्त्रियाः । स्थाप्यं गृहप्रवेशश्च गजबन्धः शनौ शुभः ॥” इति गारुडे ६२ अध्यायः ॥ सावनदिनवद्वारप्रवृत्तिः सूर्य्योदयावधिरेव । सूर्य्यसिद्धान्ते । “सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा । मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिताः ॥” अत्र दिनाधिपस्य रव्यादेर्भोग्यं दिनं वाररूपं सावनगणनोक्तं व्यवहारोऽपि तादृगेव । तिथि- विवेकेऽपि । भवतु वारयोगे व्यस्ततिथेर्ग्रहणं तस्य दिनद्वयेऽसम्भवादित्युक्तम् । सावनदिन- माह सूर्य्यसिद्धान्तः । “उदयादोदयं भानोर्भौमसावनवासराः ॥” भौमेति पित्रादिदिनव्यावृत्त्यर्थम् । यत्तु रेखा- पूर्ब्बपरयोरित्यादिना ज्योतिषे वारप्रवृत्तिरुक्ता तज्ज्योतिःशास्त्रोक्तकालहोरादिज्ञापनार्थमिति ज्योतिस्तत्त्वे बहुधा विवृतम् । “नैवास्तमनमर्कस्य नोदयः सर्व्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः ॥” इति विष्णुपुराणात् सूर्य्यदर्शनयोग्यकालादेव वारघटककर्म्मसु स एव कालः । इति ज्योति- स्तत्त्वम् ॥ * ॥
अथ शोभनवाराः । “रविः सोमो मङ्गलश्च बुधो जीवः सितः शनिः । एतेषां नामतो वारा विख्याताः सर्व्वकर्म्मसु ॥ सितेन्दुबुधजीवानां वाराः सर्व्वत्र शोभनाः । भानुभूसुतमन्दानां शुभकर्म्मसु केष्वपि ॥” इति ज्योतिःसागरः ॥ अथ वारवेला । “कृतमुनियमशरमङ्गल- रामर्त्तुषु भास्करादियामार्द्धे । प्रभवति हि वारवेला न शुभाशुभकार्य्यकरणाय ॥” अथ कालवेला । “कालस्य वेला रवितः शराक्षि- कालानलागाम्बुधयो गजेन्दू । दिने निशायामृतुवेदनेत्र- नगेषु रामा विधुदन्तिनौ च ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥
तयोर्व्वर्ज्यत्वं यथा, —
“रवौ वर्ज्यं चतुःपञ्च सोमे सप्तद्वयं तथा । कुजे षष्ठद्वयञ्चैव बुधे बाणतृतीयकम् ॥ गुरौ सप्ताष्टकं चैव त्रिचत्वारि च भार्गवे । शनावाद्यञ्च षष्ठञ्च शेषञ्च परिवर्ज्जयेत् ॥ * ॥
रवौ षष्ठं विधौ वेदं कुजवारे द्वितीयकम् । बुधे सप्त गुरौ पञ्च भृगुवारे तृतीयकम् । शनावाद्यं तथा चान्त्यं रात्रौ कालं विवर्जयेत् ॥” इति सारसंग्रहः ॥ * ॥
अथ स्त्रीणां प्रथमरजस्वलायां वारफलम् । “आदित्ये विधवा नारी सोमे चैव पतिव्रता । वेश्या मङ्गलवारे च बुधे सौभाग्यमेव च ॥ बृहस्पतौ पतिः श्रीमान् शुक्रे पुत्त्रवती भवेत् । शनौ बन्ध्या तु विज्ञेया प्रथमस्त्री रजस्वला ॥” इति मथुरेशकृतसारसंग्रहः ॥ (बालः । यथा, ऋग्वेदे । २ । ४ । ४ । “वियोभरिभ्रदोषधीषु जिह्वा मत्यो न रथ्यो दोधवीति वारान् ॥” “रथ्यो रथार्होऽत्योन वाजी यथा वारान् दंश- वारणसाधनान् बालान् दोधवीति कम्पयति ।” इति तद्भाष्ये सायणः ॥ वरणीये, त्रि, । यथा, ऋग्वेदे । १ । १२८ । ६ । “विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्बारान् वृण्वति ॥” “वारं सर्व्वैर्वरणीयम् ॥” इति तद्भाष्ये सायणः ॥)