संस्कृत-शब्दकोशः

वारकिन् वारङ्क

वारकीर

वाचस्पत्यम्

वारकीर ||‍ पु० वारे कीर इव । १ श्यालके त्रिका० वार ग्राहके ३ वाडवे ४ यूकायां ५ वेणिवेधिन्यां ६ नीराजितहये च मेदि० ।


शब्दकल्पद्रुमः

वारकीरः || पुं, (वारो वरणीयः कीरः पक्षीव । यद्वा, वारे अवसरे किरति कौतुकवाक्यमिति । कॄ + कः । निरुक्तलक्षणो दीर्घः । यद्बा, वारे अवसरे कीलति बध्नाति कौतुकार्थंरज्ज्वा प्रेम्णा वा । कील + कः । लस्य रत्वम् ।)
श्यालकः । इति त्रिकाण्डशेषः ॥ वारग्राही । व्राडवः । यूका । वेणिवेधिनी । नीराजितहयः । इति मेदिनी । रे, २८८ ॥



Correction: