वारत्र
वारबुषा
वारबधू
शब्दकल्पद्रुमः
वारबधूः || स्त्री (वाराणां जनसमूहानां बधूः ।)
वारमुख्या । इति हेमचन्द्रः । ३ । १९७ ॥ (यथा, आर्य्यासप्तशत्याम् । ३२८ ॥ “निजगात्रनिर्व्विशेषस्थापितमपि सारमखिल- मादाय । निर्मोकञ्च भुजङ्गी मुञ्चति पुरुषञ्च वारबधूः ॥”)