संस्कृत-शब्दकोशः

वारबुषा वारयिता

वारमुख्या

वाचस्पत्यम्

वारमुख्या ||‍ स्त्री वारे वेश्यावृन्दे मुख्या । बहुजनसत्- कृतायां वेश्यायाम् अमरः ।


शब्दकल्पद्रुमः

वारमुख्या || स्त्री (वारेषु वेश्यासमूहेषु मुख्या श्रेष्ठा ।)
जनैः सत्कृता वेश्या । इत्यमरः । २ । ६ । १९ ॥ (यथा, भागवते । १ । ११ । २० । “वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकाः ॥”)



Correction: